________________
प्रशस्तिका
अञ्जना चरित्रम् । २०
॥ अथ ग्रन्थकर्तृप्रशस्तिका ॥
-:००००आसीन्महामहिमविश्वतलैकमान्यः, श्रीमत्तपाविमलगच्छनभोविवस्वान् । ज्ञातस्वकान्यमतसारप्रवृद्धकीर्ति-रहद्वचोऽमृतसुधारसपानतृप्तः ॥ १॥ शत्रुञ्जयोधृतिकरो विकलक्रियाया, उद्धारको निगमबोधवुधाभिजेता । भेत्ताघवारकुमृतेनिखिलात्मभाव,-श्रानन्दवैमलमुनीश्वरसरिराजः ॥ २॥ युरमम् । तत्पदृसागरतरङ्गमृगाङ्ककल्पः, कल्पोपमः कलगुणः कलगीः कलाङ्गः । ज्ञानर्द्धिवैभवजितापरमर्द्धिगर्वः, पंन्यासऋद्धिविमलो विमलो बभूव ॥३॥ यत्कीर्तिभाजितविधुर्गगनाङ्गणाटी, कैलासकासघनसारचयो जडश्च । तत्पदृसालफलसौमरसाचमोऽभूत् , पंन्यासकीर्तिविमलो दशदिग्यशस्वी ॥ ४ ॥ अक्षाश्ववैरणमहाबलवीरशाली, शाल्यङ्गिशालिगुणगौरवसर्वनम्यः। नम्येतरः समजनि प्रतिवादिवादी । पंन्यासवीरविमलस्तकपाटकाशी ॥५॥
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com