SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अजना० चरित्रम् ॥१४॥ लक्षणलक्षिता ॥ ७१ ॥ पतिरस्यां विरक्तोऽस्ति, गतश्च रणमूर्धनि । सगर्भा दृश्यने चैषा, श्वधरिति व्यतर्कयत् ॥ ७२ ॥ तर्जयन्ती च तां प्राह, श्वश्रः केतुमती तदा । द्वयान्वयकलविन्या, कृतं किम त्वया खले! ॥७३॥ मुद्रिकादर्शनेनापि, श्वश्वा नाऽभूच्च प्रत्ययः । कलङ्कदोषभीत्याऽत-स्तदेवैषा निराकृता ॥ ७४ । आजया ते ततो मातु-निर्दया अपि सेवकाः। अञ्जनां मन्दभाग्यां तां, महेन्द्रनगराहिः ॥ ७५ ॥ समीपस्थे वने त्रस्तां, हरिणीमिव पामराः। नीत्वा च मुमुचुः पापाः, रुदन्ती ससवीं सतीम् ।। ७६ ॥ वज्रोपमगिरं श्रुत्वा, पवनः पवनोज्जवी । प्रययौ श्वशुरागारं, प्रियादर्शनमुत्कलः ॥७७ ॥ तत्रापि देवयोगेन, नैक्षिष्ट दयितां प्रियाम् । वजाहत इव श्वासान, मुश्चन् यावच्च तस्थिवान् ॥ ७८ ॥ तावत्काञ्चित् खियं धीरः, पप्रच्छ विरसाननः । अञ्जना मत्प्रिया चात्र, त्वागता वा नवोच्यताम् ।। ७९ ॥ सापि भाले करौ कृत्वा, स प्रश्रयमुवाच च । आगता चात्र सामान्या, बसन्ततिलकान्विता ।। ८० ॥ अन्तर्वलीश्च तां दृष्टवा, व्यभिचारकशङ्कया। बाला हा ! जनकेनापि, सद्य एव निराकृता ।। ८१॥ प्रलयकालदम्भोलि-सोदरं तद्वचःक्रमम् ॥ श्रुत्वा च गतसंज्ञोऽसौ, सस्वजे धरणीं परम् ।। ८२ ॥ लब्धसंज्ञः पुनश्चाशा-पाशबद्धक्रमाम्बुजः । स्वस्थीभूय स्थिरीकृत्य, मनो दध्याविति स्फुटम् ॥ ८३ ।। मनो मे शङ्कतेऽद्यापि, प्रियासगमलालसम् ।। सती सा जीविताऽवश्यं, भविष्यति कुतश्चन ॥ ८४ ॥ आशया धार्यते प्राण-श्वाशा हि दृढ़ बन्धनम् । आशामयमिदं विश्वं, तथा सा जीविता भवेत् ॥८५॥ अतः सा मयका पूर्व-मन्वेष्टव्या प्रयत्नतः। गवेषणा कृतेऽवश्यं, मिलिप्यति प्रिया मम ॥ ८६ ॥ निर्धायेति महाधीरो, विचचार बनान्तरे । गिरिषु गिरि कुजेषु, पर्यन्तेषु वनेषु च ॥ ८७॥ कुलेषु सरितामेवं, कन्दरामु द्रमेषु च । गुप्तस्थानसहस्त्रेषु, मागिताऽनेन सा भृशम् ॥ ८८ ॥ न दृष्टा न च वाऽश्रावि, तद्विशुद्धिः कुतोऽपि च । किं कर्तव्यतया मूढो, धीरोऽपि स तदाऽभवत् ।। ८९ ।। खेदवान् तप्यमानात्मा, शापभ्रष्ट इवाऽमरः । प्रहसितं 苏张继攀举柴柴柴柴柴柴柴张张张晓染染染张骁骁张继张 *॥१४॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy