________________
विललापाश्रुधाराभी, रोदयन्तीव तद्गुहाम् ॥ १४ ॥ ___महात्मन् ! पुत्र! घोरेऽस्मिन्-कान्तारं तव जन्म च । अपुण्या च कथं कुर्वे, त्वदुत्पत्तिमहोत्सवम् ॥१५॥ रुदन्तीं तां तथा वीक्ष्य, सदयो गगनेचरः। प्रतिमूर्याभिधश्चेत्य, प्रोवाच मधुरोक्तिभिः ॥ १६॥ क्रोडीकृत्य सुतं दिव्यं, रोरुदीति कथं बहु । दुःखस्य कारणं किन्ते, ब्रूहि बाले ! यथातथम् ॥ १७ ॥ साश्रुनेत्री तदा पाह, वसन्ततिलका सखी। आविवाहसुतोत्पत्तिपर्यन्तोदन्तजातकम् ।।१८।। श्रुत्वा तद्विषमं वृत्तं, मुमोचाणि सोऽपि च । तदुःखपकतां मन्ये, क्षालयन्निव सन्मताः ॥ १९॥
तदेव हृदयं हृद्य, परदुःखैश्च यन्मुहुः । द्रवति चान्यथा हन्त ! पाषाणकल्पमेव च ॥२०॥ चित्रभानुः पिता माता, सुन्दरी मालिका मम । तत्कुक्षिसम्भवश्वैष, ज्ञायतां शुभलक्षणे! ॥२१शामानसवेगनानी या, तव माता च-सुन्दरि !तदाता बुध्यतामेष, मातुलोस्मि तवानधे ।।२२ ॥ महता भाग्ययोगेन, जीविता त्वं निरीक्षिता । दिवसोऽयं महानन्दी, भव स्वस्था च साम्प्रतम् । ॥ २३ ॥ एष मे मातुलः साक्षाद्-दुःखहर्ता विशेषतः । ज्ञात्वेति रोदनश्चक्रे,भृशमेषातिपीडिता॥२४॥ चिरं स्वेष्टजने दृष्टे, दःखोत्पत्तिविशेषतः । स्वनाशमयतो मन्ये, दुःखं रोदिति वै स्वयम् ॥ २५ ॥ रोदनात् तां विनिर्वार्य, चाश्वास्यामृतवाचया । सहस्वेनाऽऽगतं कश्चित्पप्रच्छ गणकोत्तमम् ॥२६॥ दैवज्ञ ! वद पुत्रोऽयं, कीडाविधिर्भविष्यति । नैमित्तज्ञोऽपि तद्विद्यो, यथार्थफलमचिवान् ।। २७ ।। रवेचरेश ! महाराज ! कुमारोऽयं जगत्त्रये । जो चाद्भुत एवाहो, विचित्रगुणकर्मभिः ॥२८॥ शुभादृष्टसल्लग्ने, जनिरस्याऽभवच्छभा, पुण्यात्माऽयं महाभूपो। भविष्यति न संशयः।।२९॥ भवेऽस्मिन्क्षीणकर्माऽयं, निर्वाणपदमेष्यति। दिगन्तख्यातमोजा. दिवानाथ वाजनि ॥३० ॥ सूचयन्ति ग्रहा एव, भाग्यमस्य शिशोमहत् । गदतो मे च भो राजन, शणु खेटफलश्रतिम ॥३१॥ विद्यते मध मासस्य, त्वद्य कृष्णाष्टमी वरा । नक्षत्रं श्रवणं दिव्यं, वारेषु रविवासरः॥ ३२ ॥ उच्चः सन मेषराशिस्थो
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat