________________
"He Re
॥ अथ चतुर्थ गुच्छः ॥
अभना०
चरित्रम् ॥१२॥
पूर्वभवादिवृत्तं स्व, स्वामिनाथमिलापकम् । मुमुदाते च ते श्रुत्वा, दुःखितेऽपि चिरन्तनात् ॥१॥ उदीयेति सुनिः शान्तथाअनामअनासखीम् । धर्माहते च संस्थाप्य, ययौ तार्य इवाम्बरम् ॥२॥ तदैव तत्र पञ्चास्यो, यौवनस्थो भयावहः। देवाहूतइबोदयो, ददृशे भीषणाकृतिः ॥ ३॥ स्वपुच्छाघातभूपृष्ठं, स्फोटयमिव विश्वतः। पूरयमिव दिक्कुञ्जान्, निनादैरतिभीषणैः ॥४॥ क्रकचदशनबरो वहिज्वालास्फुरत्कचः । लोहाड्डशनखास्यास्त्रः, शिलावक्षाः सटाधरः ॥ ५॥ मदोन्मत्तकरीन्द्रासृक्-लिप्तदेहकरालकः । प्रज्वलद्दीपदृक्तेजा, वज्रदंष्ट इवाशरः* ॥ ६ ॥ दृष्ट्वैवं तं महासिंह हरन्तमिव जीवितम् । ते उभे वेपमानाङ्गे, ततो मन्दं प्रचेलतुः ॥ ७ ॥ प्रविशन्त्यौ मृगीते, कातराक्ष्यो धरातलम् । किंकर्तव्यतया मूढे, यावद्भीत्या च तस्थतः ॥ ८॥ तावतत्कन्दराधीशो, गन्धर्वमणिचूलकः । शीघ्रमष्टापदीभ्य, प्राणांस्तस्य त्वपाहरत् ॥ ९ ॥ पुनरष्टापदं रूपं, संहृत्य सप्रियः सकः । तद्धर्षाय स्तुतिञ्चक्रे, गुणानामर्हतः प्रभोः ॥ १० ॥ अमुक्त्वा तस्य सामिप्य-मुषतुस्तत्र ते सुखम् । मुनिसुव्रतनाथस्य, बिम्ब संस्थाप्य पूज्यते ।। ११ ॥
वज्रचक्राकुमावात्रिं, भूरिविक्रमशालिनम् । सिंहीव चैकदा सिंह-मजनाऽसौष्ट सत्सुतम् ॥ १२ ॥ तत्सखी मुदितास्याब्जा, बसन्ततिलका ततः । अन्नपानादिभिस्तस्याः, प्रसूतिकर्म चाऽचरन ॥ १३ ॥ अझना च तदा पुत्रं, कृत्वा चोत्सङ्गवर्तिनम् ।
* राक्षसः इति ।
* 2 RENESE HERE HERese ke kee
॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com