________________
अनना चरित्रम् ॥१०॥
***********
पीडिता । अपश्यन्ती परोपाय, ततः खिन्ना विनिर्गता ॥५४ ॥ येषु येषु पुरेष्वेषा, ग्रामेषु नगरेषु च । प्रयाति तत्र भूपालः, पुरुषश्च निवार्यते ॥ ५५॥ हेतुनाऽनेन सा बाला, स्थितिं क्वापि न चाकरोत् । आपतद् व्यसने हन्त भवन्ति रिपवोऽखिला: ।। ५६ ॥ इत्थं विश्वग-निराधारा, श्रान्ता गर्भभरा सती। क्रमशो दैवयोगेन, ययौ सा भीषणाटवीम् ।। ५७॥ तत्रादिरम्यनकुञ्जद्रुमस्याधः सखीद्वया । स्थिताऽतिवेदनामुढा, विललाप भृशं मुहः॥६८॥ उवाचेति धरापृष्ठे, चैकाऽहं मन्दभागिनी । माहेन्द्रतन याप्येषा, रोख्दीति वनान्तरे ।। ६९ ॥ अथवा क्व पिता माता, क्वासौ बन्धुजनः प्रियः । चीर्णकर्मविपाकस्य, चोदये विप्रियोऽखिलः ॥ ६० ॥ यतो गुरुजनैश्चापि, सत्यान्वेषणमन्तरा । दासीव धर्षिणीवैषा, विदयैश्च खलीकृता ॥६१॥ श्वश्वा तु केतुमत्यापि, कौलकलङ्कभीतया । कृतं साधु यया गेहादहं सद्यो निर्वासिता ॥६२ । सम्बन्धिभयभीतेन, पितस्तेऽपि सुचिन्तितम् । लोकरीति पुरस्कृत्य, सुतेयमनपेक्षिता ॥ ६३ ॥ दुःखपीडितनारीणां, मातेका शरणम्भुवि । अनुसृत्य पितुर्वाक्य, तयापि विमुखीकृता ।। ६४ ।। जीवति जनके भ्रातर्न दोषस्तव कश्चन । हा नाथ ! त्वयि दूरस्थे, सर्वे मे रिपवोऽभवन् ॥६५॥ पतिम्विना प्रिया नार्यो, न जीवन्ति क्षणं त्वपि । जीवत्यद्यापि हन्तैषा, मन्दभाग्यशिरोमणिः ॥६६॥ अअनामिति दीनास्यां, रुदन्तीं तत्सखी पुनः । आश्वास्य मधुरैर्वाक्य-स्ततो धुरिव्यचालयत् ॥ ६७॥ गच्छन्त्यौ ते पथि क्लान्ते, श्रुत्तचिन्ताऽतिविह्वले । क्रूरसत्त्वखराराव-चैपमानकलेवरे ॥६८॥ कन्दरायां विशालायां, ध्यानस्थं शान्तवासनम् । अमितगतिनामानं, मुनिमेक मपश्यताम् ।।६९॥ युग्मम् ॥ चारणश्रमणं भक्त्या, तं मुनि विनयानते। नमस्कृत्य पुरस्तस्य, तस्थतुर्विगतज्वरे॥७०||आत्मनीनं मुनि
निं, समाप्य दक्षिणं करम् । उत्थाय सर्वकल्याणी, धर्मलाभाशिषं ददौ ।।७१।। नमस्कृत्य पुनर्भक्क्या, दासीवसन्तसेनिका । आमूलचूलवृत्तान्त-मअनायास्त्वजीगदत् ॥ ७२ ।। गर्भेऽस्याः कोऽयमस्तीह, कर्मणा केन वाज्नया । अवस्था वेशी प्राप्ता, पृष्ट
*******
॥१०॥
**
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com