SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तवृत्तं सकलं सोऽपि, कथयामास भूभुजः । श्रुत्वेति लज्जया नमः, श्यामास्यश्चाभवन्नृपः ॥ ३६॥ दध्यौ च हृदि भूपालो, विपाक इव हा विधेः । अचिन्त्यञ्चरितं स्त्रीणां, भार्गवोऽपि खलायते ॥ ३७ ॥ अञ्जना कुलटा चैषा, कुपुत्री कुमतिः शठा । श्यामीकर्तुलकुलं मेऽद्य, मदालयमुपागता ॥ ३८॥ दूषयत्युज्ज्वलं वासश्चाअनस्य लवोऽपि तु । निष्कलङ्ककुलं पूर्व दृषितमनयाधुना ॥३९॥ इत्थञ्चिन्तयतो राज्ञः, प्रसन्नकीर्तिस्तस्सुतः । अप्रसन्नमुखाम्भोजो, नीतिमानाह कोपनः ॥४०॥ अधुनैव गृहादेनां, निसारय पितस्त्वरा । परम्परागतं पूतङ्-कुलं दूषितं मे तया ॥ ४१ ॥ पुत्रीथं ममता त्याज्या, स्वैरिणीयं गतत्रपा । छिदन्ति सुधियः किं नो, चाङगुलिमुरगक्षताम् ॥ ४२ ॥ महोत्साहाभिधो मन्त्री, तदाऽऽह विनयान्वितः । श्वश्रसन्तापतप्तानां कन्यानां शरणं पिता ॥४३॥ कदाचित्रयाश्वश्वा, चारोप्यास्यांच दुषणम् । निष्कासिता भवेद्वाला, प्रत्ययः कोन बुध्यताम् ॥४४॥ सदोषा वाऽथ निर्दोषा, यावद्राजन् ! न निर्णयः । रक्षणीया रहस्ताव-दनुकस्प्या च सुता भवेत् ॥ ४५ ॥ राजाऽऽह साधु भो मंत्रिन् पुत्रीयं मम वल्लभा । नष्टशीला परअजे, श्लाध्यस्त्यागस्ततो मतिः ॥४६॥ श्वश्वः सर्वत्र ही दुष्टा, भवन्ति खलबुद्धयः । ईदृशश्चरितं किञ्च, वधूनां न क्वचिद्भवेत् ।। ४७ ॥ द्वेषिणीयं खला पत्यौ, पूर्वमेव श्रुतं मया । प्रीतिभावस्ततोऽमुष्यां, वायो। भून्मनागपि ॥४८॥ तं विना गर्मिणी पापा, जातेयश्च कथं वद । बन्धकीय ततो मन्त्रिन् , सदोषैव विभाव्यताम् ॥४९॥ तच्छ्वश्वा केतुमत्या तु, कृतं साधु बहिष्कृता । इतोऽप्येषा च निष्कास्या, चादृश्यास्या हि सत्वरम् ॥ ५० ॥ इत्थम्भूपाज्ञया कल्पे, क्रन्दमानजनेक्षिताम् । अअनां द्वारपालोऽपि, गृहादहिस्त्वकारयत् ॥५१॥ क्षुत्पिपासाकुला बाला, मुञ्चन्ती श्वाससन्ततिम् । धरणीमश्रुधाराभिः, सिञ्चन्तीव पदे पदे ॥ ५२ ॥ दर्भविद्धक्रमच्योतद्रुधिरेण नु मेदिनीम् । रअयन्ती स्वलन्ती च विश्राम्यन्ती प्रतिद्रुमान् ।। ५३ ।। रोदयन्ती दिशश्चापि, सह सख्याति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy