SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीय गुच्छः ॥ इतोऽञ्जनासती सौम्या, दिवसेऽस्मिन्मनोरमे । गर्भन्दधार विश्वेऽयं, सन्निधिमिव काश्यपी ॥ १ ॥ गर्भप्रभावतस्तस्याः, शरीरावयवाः स्फुटम् । शुशुभिरे क्षितेर्मार्गाः, शरदीव समन्ततः॥२॥ आनने पाण्डुवर्णाऽभूद, गण्डयोः सुपमा तथा । शिशिरतौं यथाऽरण्ये, पालाशपुष्पसन्ततः ॥३॥ दधतुः श्यामतामेवं, स्तनाग्रचारुचूचुकौ । गतिश्च मन्थरा जज्ञे, नेत्रे दीर्घसमुज्ज्वले ॥४॥ साङ्कुरा धरणीवैषा, गर्भलक्षणलक्षिता । यदा जज्ञे तदा प्राह, श्वश्रूः केतुमती रुपा ॥ ५॥ आः पापे ! नितमां दुष्टे !, वंशद्वयकलङ्किनि! । अकारि किन्त्वयाऽकार्य-मिदं भूरि त्रपाकरम् ॥६॥ स्थिते देशान्तरे कान्ते, जाताऽसि गर्भिणी कथम् ? । किं वदिप्यन्ति हा! लोका, कुकृत्ये तव पुंचलि ? ॥७॥ अवज्ञा ते यदाकार्षीन्मत्पुत्रपवनस्तदा । अज्ञासिषमसो मौढ्या त्वां दूषयति वै सुधा ॥८॥ आस्ते त्वं पांसुला ज्ञातं, मया नाद्यावधि ध्रुवम् । परं सद्यः फलत्यत्र, कर्म पापक्रियोद्भवम् ॥९॥ तिरस्कृता यदाश्वश्वा, सतीयं परुषाक्षरैः । अश्रुभिः क्षालयन्तीव, तत्क्रमौ प्राह सुन्दरी ॥१०॥ मातर्वाच्यमवाच्यं न, किं हिमादग्निसम्भवः । कुलजायां कथन्दोष-स्त्वया चारोप्यते मयि ॥११॥ त्वत्स्नूरहरागत्य, भुक्त्वा माश्च पुनर्गतः । अमोघवीर्यहेतुत्वाजातेयं मामिकी स्थितिः॥१२॥ विश्रम्भो यदि नो मातः, स्वामिनाथसमागमे । प्राणेश्वरकराम्भोज-दत्तेमां पश्य मुद्रिकाम् ॥१३॥ मुद्रिकादर्शनेनापि, संशयालुः सकाऽभवत् । विपरीते विधौ सर्व-श्चेष्टितायतेऽन्यथा ॥१४॥ लज्जानम्रमुखी साध्वी, अजनां पुनरेव च । पवनजननी प्राह, तिरस्कारकटूक्तिभिः ॥१५॥ रे खले! तव नामाऽपि, पतिऍाति नो कदा । सङ्गमः सह ते तेन, Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy