SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ द्वितीय अअना० चरित्रम् | ॥८॥ गुच्छ यदि मां नाथ! द्रष्टुमिच्छति चेत्पुनः । साधयित्वा निजङ्कार्य-भागतिर्दाग विधीयताम् ॥१३५॥ त्वन्मनोमानसाम्भोऽन्तःप्रीतिमुक्ताफलस्पृहा । पूर्यतामाशु मे नाथ!, गम्यतात्रयवैरिणः ॥१३६ ॥ परमासीदियं स्वामिन्नृतुस्नाता च साम्प्रतम् । अन्तर्वत्नी भवेयञ्चेल्लोकोक्तिः केन वार्यते ॥१३७॥ दूरस्थे यदि कान्तेऽपि, दुर्जनः किं वदिष्यति । रहस्यं दर्जनानां हि, हृदये नोपतिष्ठते ॥१३८ ॥ पवनः प्राह मा ताम्य, चागमिष्यामि सत्त्वरम् । आगते मयि भोः कान्ते ! किं वदिष्यन्ति ते खलाः ॥ १३९ ।। मनाममुद्रिका वाऽथ, मत्समागमबोधिकाम् । गृहाण तादृशे काले, प्रकाश्या सा त्वयाऽनधे ॥ १४० ॥ उक्त्वेति मुद्रिकां दत्वा, प्रोड्डीय पवनस्ततः । मानसाख्यसरोऽभ्यर्णे, स्वशिविरमुपासरत् ॥ १४१ ॥ देववत्सह सैन्येन गच्छन्, खे पवनजयः । लङ्कापुरी समागत्य, पौलस्त्यश्च ततोऽनमत् ।। १४२ ॥ तरुणार्कनिमः कान्त्या, रावणोऽपि ततस्त्वरा । वरूथिन्या सह योधु, वरुणं प्रति प्राचलत् ॥ १४३॥ बाबानासङ्गमवृत्तरम्ये, लकेशवातामिप्रयाणसौम्ये । पंन्यासमुक्तिप्रथिते चरित्रे, गुच्छो द्वितीयस्त्वगमत्समाप्तिम् ॥ १४४ ॥ - इति श्रीमत्तपोगच्छ नभोनभोमणि-शासनसम्राट्, जङ्गमयुगप्रधान, कनकाचलतीर्थषोडशीयोद्धारक, क्रियोद्धारक, श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ठ, सकलसम्वेगिशिरोमणि, पंन्यासदयाविमलगणिवरशिष्यरत्न, पण्डितशिरोमणि पंन्यास सौभाग्यविमलगणिवरशिष्यपन्यासमुक्तिविमलगणिविरचिते, सत्यननाचरित्रे पवनभयस्य तथा अअनाया एकान्तसङ्गमवृत्तभाबुकस्तथा वरुणजयप्रस्थितलकेशपवनञ्जयादिवृतान्तमनोहरः-द्वितीयगुच्छ समाप्तः॥ - -::- -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy