________________
*
*
******
चोऽमृतैः ॥ ७७ ॥ मत्समागमजं सौख्यं, यया किञ्चिन्नचेक्षितम् । पर्वतोपमदुःखौधैः, पीडिता या च मूलतः ॥ ७८ ॥ अअने का दशा तेऽभूत्कान्तापमानदःखिते ! । अविवेकपदारूढं, घिग धिक त्वां पवनञ्जय ! ॥७९ ॥ मदपमानदुःखेन, खेदिता सा चिरं सती । प्राणान्-त्यक्ष्यति तद्धत्या, जातपापेन का गतिः॥८०॥ विचार्येति मनोभावः, पवनेन स्वकोऽखिलः । ग्रहसितोत्तममित्राय, न्यगादि प्रश्रयोक्तिना ।।८१॥ मित्रं विना यतः कश्चिन्नापरो हृद्यचिन्तकः । ततः सुखं तथा दुखं, मित्रस्यैव निवेद्यते।।८२॥ श्रुत्वेति प्रहसितः प्राह, चिरेणापि सखे त्वया । स्मृताऽसौ वियोगार्ता, साधु साधु-कुलोत्तम!॥८३॥जीविताऽस्ति नवा बाला, सारसीव वियोगिनी । जीविताऽपि भवेद्वाऽसौ, त्वत्समागमाञ्छया ॥ ८४॥ आश्वासनमतस्तस्याः, कर्तव्यमुचित तव । तत्र गत्वा च तां सद्यः, प्रीणय मधुरोक्तिभिः॥८५ ॥ तदाज्ञामुररीकृत्य, पुनः स्वस्वार्थसिद्धये । आगन्तव्यं त्वया मित्र ! गच्छ स्वस्त्यस्तु ते सखे ॥ ८६॥ हितशिक्षाप्रद मित्रं, विवेकी पवनञ्जयः । नीत्वा सहैव चोडीय, जगाम तत्र सत्वरम् ।।८७॥ ___अननासुन्दरी सौध-म्यद्वारि स्वयं स्थितः। प्रहसित साखा चैकः, प्राविशत्तद्गृहान्तरम् ।।८८॥ अञ्जना सा तदा तल्पे, मत्सीव विरले जले । वियोगाग्निज्वलद्गात्री, भृशमुद्रजिताऽभवत् ।। ८९ ।। ज्योत्स्नयापि विधोस्तप्ता, हिमेनेव मृणालिनी । आसीत्सा विरहो मन्ये, यमराजसहोदरः ।। ९० ॥ हृदन्तस्तापतस्तस्या, हारमुक्ताफलान्यपि । अत्रुटचन् कुन्तलश्रेणी-श्वासेन प्राचलन्मुहुः ॥ ९१ ॥ असबवेदनातोऽस्याः, प्रसिपम॒जयोरपि । काचवत्स्फुटिताः शिघ्र, सत्मणिवलया अपि ॥९२॥ वसन्ततिलका नाम्नी, सखी तस्या वचः पटुः । सदृष्टान्तमदाद् धैर्य, व्यसने यत्सुधायते ॥९३॥ शून्यदृष्टिमना यावजज्ञे काष्ठमयीव सा । ईदृस्थितिगता बाला, प्रहसिनेन वीक्षिता ॥ ९४ ॥ कृशाङ्गयष्टिमातप्तां, निपतन्तीमितस्ततः । त्यजत्पाणामिवैनां स, दृष्ट्या हृदि व्यचिन्तयत् ।। ९५ ।। अहो बालिश्यमेतस्य, येनेयं मन्तुमन्तरा। गमितेमां दशां हन्त, धिम् दैव! चेष्टितं तव ॥ ९६ ॥
*
****
******
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat