________________
प्रथम
अअना० चरित्रम् ॥४॥
गुच्छ
साधका इव सिद्धितः ॥९९ ॥ राकेन्दुखि तत्पित्रोनेत्रकुमुदमोददः । मिथः प्रीतिजुषोर्जज्ञे, पाणिगृहमहोत्सव; ॥ १०॥ यथा रत्नानि शोभन्ते, विशदरुक्मभूषणे । कन्यारत्नं तथा चात्र, युनि शुद्धकुलोद्भवे ॥१०१॥ चश्चाद्विद्याधराधीशो, महेन्द्रनृपतिस्ततः । आप्तसम्बन्धि प्रह्लाद-भूपालं पर्यपूजयत् ॥१०२।। लब्धस्नेहमहापूजा, प्रहादनृपसत्तमः ।नगरी स्वां समायतो, वरवधुपुरस्सरः॥१०३।। सत्यञ्जनायाः पवनेन साकमुद्रावृत्तेन महापवित्रे । पंन्यासमुक्तिप्रथिते चरित्रे, लेमे समाप्तिं प्रथमोज गुच्छः ॥१०४॥ इति श्रीमत्तपोगच्छनभोनभोमणि, शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धारक, श्रीमदानन्द विमलसरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पंन्यासदयाविमलगणि शिष्यरत्नपण्डितशिरोमणि श्री सौभाग्यविमलगणिवरशिष्यपन्यासमुक्तिविमलगणि विरचिते-सती-अञ्जनाचरित्रे-अञ्जनापवनञ्जय विवाह
सम्बन्धिचारुवृत्तरमणीयः प्रथमो गुच्छः समाप्तः ।।
॥४
॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com