SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तद्गिरः स्वस्थः, पीयूषरसगर्भिणीः। पवनञ्जयकौमारो, हियेति मन्दमावदत् ॥ ४० ॥ हन्त हा मित्र ! दुरेऽस्ति, पाणीपीडनवासरः अद्यैव द्रष्टुमिच्छामि, बालां तां हृत्सरःस्थिताम् ।। न चेतो रज्यते कापि तां विना मित्र ! साम्प्रतम् । ऋते सारसिकां कान्तां, सारसः किमु जीवति ॥४२ ॥ श्रुतादृष्टप्रियाप्रेम-रज्जुबद्धकजक्रमः । विश्वं भो मन्यते शून्यं शून्यवादीव तल्लयः ॥४३॥ अतः कः सरलः पन्था, दर्शनेऽस्या रमामणेः । अपनेतुं परं दुःखं, मित्रस्य नापरः प्रभुः॥४४॥ तल्लावण्यसुधापानाऽऽसक्तचित्तस्य मेऽधुना । क्षणं धस्रति घस्रोऽपि, मित्र ! मासायते ध्रुवम् ॥ ४५ ॥ दिनानि त्रीणि हा ! कष्टं, त्रियुगा इव भोः सखे ! । कथं यास्यन्ति धिक् कामं, यत्कृते विद्यते जगत् ।। ४६ ॥ कन्दर्पबाणविद्वाझं प्रियाप्रेमविसंस्थुलम् । प्रहसित उवाचेत्थं, मित्रं मित्र! स्थिरो भव ॥ ४७॥ नक्तं तत्र व्रजिष्यावः, पराग्लक्षितविग्रहौ । उत्पश्यावः सुखासीनां, सरोजवदनां सतीम् ॥४८॥ मित्रामृतवचःपानक्षीणतापलसत्तनुः । ध्यायन तामेव तस्थौ स, उपासक इवेष्टकम् ॥४९ ॥ आगतायां विभावया पवनः सह तेन च । उड्डीय हृदि तां ध्यात्वा, तदाऽऽगारमुपागमत् ।। ५० ॥ आसीत्सा सप्तम्यां भूम्यां, विशालायां द्विजानना । गत्वाऽपश्यच्च तां तत्र, ससखश्च्छन्नचारवत् ॥ ५१ ॥ अञ्जनाऽऽननलावण्यं, निपीयासौ मुहुर्मुहुः । न तृप्तिमाप वर्षायां, केकीव जलदध्वनिम् ॥५२॥ वसन्ततिलका तस्या, आसीदेका सहचरी । अपरा मिश्रका नाम्नी, नामोपमगुणोज्ज्वला ॥ ५३ ।। वसन्ततिलका पाह, दिष्टया वर्द्धस्व भोः सखि ! पवनञ्जयकौमारो, यत्त्वाकामयते स्वयम् ॥ ५४ ॥ मध्य एव परोवाच, वाचाला तिपटीयसी । विद्युत्प्रभवरं हित्वा कोपरो वण्यते त्वया ॥५५॥ सर्वदःकसुरद्रः स, करीरः क्व च निर्दलः। वियन्मणेः पुरश्चेवं, रिङ्गणस्य च का कथा ॥५६॥ विद्यारूपगुणश्रीणां निधानमवनौ सकः । सखीयोग्यो वरः सोऽतः सृतं सत्यमपरेणतु ॥ ५७ ॥ निःसारां मिश्रकोक्ति सा, खण्डयन्तीव चेय॑या । प्राहेति नितमां मुग्धा, मुग्धेसि फल्गुभाषिणि ! ॥१८॥ अविचारवचःसारः, सुन्दरोऽपि मुधायते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy