________________
THE TEXTS चित्रं विभो कथमवाङमुखवन्तमेव
___ सूनोत्करं तव किरन्ति यथा सुरास्ते । नैवं परस्य; महिमा सुमणेस्तु यादृङ्
नैवं तु काचशकले किरणाकुलेऽपि ॥२॥
स्थाने गभीरहृदयोदधिसम्भवा या'
वाचस्तवामृततुला विबुधास्त्वदीयाः । यभेजुषां सुमनसां न परो भवत्तः
कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२२॥
स्वामिन्सुदूरमवनम्य समुत्पतन्तः
संसूचयन्ति भविकानिति चामराः किम् । यन्नेतरा सुतमसूत विभो समं ते
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ॥२३॥
श्यामं गभीरगिरमुज्ज्वलहेमरत्न
सिंहासनेऽमरगिरिस्थनवाम्बुदाभम्' । त्वामीक्षते भविककेकिगणो यतस्त्वं
नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥२४॥
माया
उद्गच्छता तव शितिद्युतिमण्डलेन'
भात्या वपुः परिवृतं सुषमां बिभर्ति । लुम्पत्यशोककिसलान्सलतानतस्त्वां
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२५॥
(1) K. 20a. B. 22a. (7)
(2) B. 20d. (3) K. 21a. (4) B.21d. (5) K 22a K. 23a. (8) B. 23d. (9) K. 24a. (10) B. 24d.
(6)
109
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com