________________
THE TEXTS
(३) श्रोवरकाण-पार्श्वनाथ-स्तोत्रम्
श्री-हेमविमलसरि-कृतम् । श्रेयोमहोदयलतावनयौवनश्री
___ सम्प्राप्तिमाधवमगाधतरं महिम्ना । पार्श्वप्रभुं स्तवयुगैकपदैः समस्या
बन्धानवीमि वरकाणपुरीगिरीशम् ॥१॥ कल्याणमन्दिरमुदारमवद्यभेदि'
पादाम्बुजं त्रिजगतीश तव स्तवीमि । अम्भस्तरङ्गनिकरैः स्नपितं मिषेण
भक्तामरप्रणतमौलिमणिप्रभाणाम् ॥२॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः'
प्रज्ञानिधिन हि विभुर्गदितुं गुणौघम् । अर्णवायितगुणं परमेष्ठिवर्गे
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥३॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप-'
___ मज्ञः कथं स्तुतिविधौ प्रभवेयमीश । सङ्क्रान्तमप्सु शशिनं निशि वा विना
___ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥४॥ मोहक्षयादनुभवन्नपि नाथ मयों
मानातिगांस्तव गुणान्न हि चङ्क्रमीष्ट । प्राज्यप्रभुत्वपरमेश्वरमप्रगाह्य
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥५॥
Kalvinamandira stotra" st. la. K.2a. (4) B.2d. (5) K. 3a. (6)
(2) "Bhaktamara-stotra" st. 12. B. 3d. (7). K.4a. 18) B.4a.
(3)
105
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com