________________
ANCIENT JAINA HYMNS प्रणेमुषां कौसुमशेखरन्ति दि
ग्विलासिनीनां विलसद्यशांसि यत् । स्फुरन् गुणौषो हृदये च हारति
प्रमुस्तवैवात्र पदप्रसन्नता ॥२१॥ व्यपास्य संसारविकारविप्लवा
मन्दमानन्दपदं दधास्यतः । भवोद्भवोपप्लवविप्लुतात्मनो
मनः समाधानावधिं विधेहि मे ॥२२॥ त एव वा भगवन् विकल्पना
निरस्य साम्यामृतनित्यशीतलाः । नासाग्रविन्यस्तदृशः स्मरन्ति ते
पदाम्बुजं ये हृदयाम्बुजे निजे ॥२३॥ नो शास्त्रार्थे प्रसरति मतिर्नो तपस्सु प्रयत्नो
नात्मध्याने धृतिरनुभवो नैव योगप्रयोगे । नाप्युत्साहः प्रथमजिन मे धर्मकृत्येऽपरस्मि
__ नोहे मुक्तिं तदपि तव यत्तत्र भक्तिः प्रयोक्त्री ॥२४॥ कृतार्थितमनोरथः सकलवर्णसणनः
स सोममुनिसुन्दरत्रिदशवृन्दवन्द्यक्रमः । स दैवकुलिको मम प्रथमतीर्थनाथः पृथू
करोत्ववितथाः प्रथाः प्रमथितापदां सम्पदाम् ॥२५॥ इत्थङ्कारं स्तुतिपथमहं त्वामनैषं कृतार्थ
धर्मार्थादीन् स्वहितजनकानाप्तुकामः पुमर्थान् । नाथः प्रार्थ्यप्रथननिपुणः प्राथ्यसे त्वत्प्रासादान्छीनामेय प्रशममधुरा मेऽस्तु सारोदयश्रीः ॥२६॥
104
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com