________________
THE TEXTS
प्रणिनन् विप्नौघान् प्रबलरिपुभूतादिदमनैः
प्रयच्छन्नानन्दाभ्युदयमभितोऽभीष्टघटनैः । अपस्मारस्मेरस्मरगड्डविकारज्वरमुखा
रुजोऽजर्यस्थैर्यात् प्रमथसि सपर्याप्रणयिनाम् ॥ ५ ॥
इमौ रागद्वेषौ प्रसभमनिवार्यों भववने
प्रबाधेते व्याधाविव बहु मनो मे मृगमिव । कृपालुस्त्वं नाथस्त्रिजगदवनोपायजनक
स्तदाभ्यां नो कस्मादवसि भवदेकाश्रितमिदम् ॥ ६ ॥
स्फुरन् रागश्चौरो भवजलनिधौ' द्वेषमकरो
महामोहग्राहो जनिमृतिचलद्वीचिनिचयाः । भृशं सर्व दुःखप्रदमिदमभून्मे परमतो
न च त्रातर्यस्मात्तव पदयुगल्याप्यत तरी ॥ ७॥
स्वयं निर्माप्यामी भृशमशुभमर्माण्यसुमतां
तुदन्तो विद्वेष्याः सहचरणशीलाः प्रतिपदम् । यथा स्युस्ते चिन्त्या इह न हि बहिःस्थास्तदिव ते
ततस्त्वं मदूरीभवनमुभयेषामपि कुरु ॥ ८॥
त्रिलोक्यन्तस्तावच्चिरपरिचितं राज्यमजित
जनस्वान्तास्थान्यां ननु विदधता मोहमहिमा । न यावत्सर्वान्ता रिपुकुलतरोर्मूलविभुजो
हठात्तामाक्रामत्यधिप तव निस्सीममहिमा ॥९॥
the
original reading
(1) Thus corrected on margin, substitating "भवांभोषौ रागप्रबलचरटो".
101
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com