________________
ANCIENT JAINA HYMNS एवं श्रीभरुकच्छवर्यनगरालकारचूडामणे
नूतो मुग्धजनोचितेन मयका भक्तिस्तवेनामुना । संसाराम्बुनिधौ विभो निरवधौ मज्जन्तमत्राणकं
देव श्रीमुनिसुव्रतोद्धर तपाकूपार मामानतम् ॥४०॥ (२) श्रीदेवकुलादिनाथ-स्तवनम्
श्रीसारोदयगणि-कृतम् श्रीमन्तमादीश्वरमादरेण तं
स्तुवे परात्मानमनन्तसंविदम् । यः साम्प्रतं देवकुलाश्रमे सतां
हितार्पणैर्दर्शयति स्वमंशतः ॥१॥ न कीर्ती सम्प्रीतिन हि विदुरतायाः प्रकटनं
न चातुच्छा वाञ्छा विषयजसुखे न व्यसनिता । प्रयुक्ते मां स्तोत्रे जगदधिपतेरेव भवतः
परं सवाभीष्टप्रथननिपुणं नाथ सहजम् ॥२॥ विभो दायं दायं भवसुखमभीष्टं शिवसुखं
प्रदत्से वात्सल्याज्जिन निजपदोपास्तिसजुषाम् । प्रसिद्धो नीरागस्तदपि विजयेथास्त्वमथवा
न मादृक्षलक्षं विलसितमहो दैवतमिदम् ॥३॥
तथा यौगं योगं निरुपमतपोजापविधिभि
स्त्वमभ्यासासीत्त्वयि स हि यथा कर्ममलहृत् । धराद्याः षट्कायाः षडपि ऋतवः पञ्चविषया. स्तवैतन्माहात्म्याजिन यदनुकूलत्वमगमन् ॥४॥
100
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com