SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ THE TEXTS यद्वत्पूर्ण पृथुतरनदे संचरन्निन्दुबिम्ब कूर्मोऽपश्यत्पवनदलितोदामसेवालबन्धे । कर्मोऽत्कृष्टस्थितिविघटनेऽनन्तकालात्तथाहं त्वामद्राक्षं जिन पुनरयं भाग्यलभ्यो हि योगः ॥२२॥ आज्ञायां ते विमुखमनसां भरिकर्मावृतानां भूयोऽपि त्वं भवसि भविनां नाथ दृष्टोऽप्यदृष्टः । आयुर्वेदी व्यपनयति किं रोगमुग्रं जनानां निर्बुद्धीनामवगणयतामुक्तभैषज्यजातम् ॥२३॥ दुःखानन्त्यं त्रिजगति मया योनिलक्षेषु सेहे भ्रामं भ्रामं प्रतिपदमविश्रान्ति धर्म विना ते । किं पाथेय दृढतरमृते दीर्वमध्वानमाप्तः स्यादध्वन्यः क्वचिदपि सुखी क्षुत्पिपासाभिभूतः ॥२४॥ मिथ्यात्वाद्यैर्बहुभवभवाभ्यासपुष्टैः प्रमादैः संसारान्तन सुखकणिकाः काश्चनापं कदापि । सञ्जायन्ते न खलु निहितैः कोद्रवैः क्षेत्रमध्ये शालिस्तम्बा रुचिरकणिशश्रेणिसम्पत्तिमन्तः ॥२५॥ मोक्षोपायं भगवदुदितं भावतो ये प्रपन्नाः प्रत्यासन्नीभवति भविनां निवृति थ तेषाम् । पारे पाथोनिधिगुरुतराच्छिद्रबोहित्थमध्या सीना केचिजिगमिषुजनाः स्युन गन्तुं समर्थाः ॥२६॥ देवानादिनिखिलभविनां कर्मराशिस्त्वदुक्ता ऽनुष्ठानस्याभ्यसनविधिना द्रागदनीध्वस्यतेऽसौ । स्वर्णान्नाना भवति न हि किं वहियोगेन सद्यो ऽलोलीभावस्थितिरपि मलो मार्तिकः सर्व एव ॥२७॥ 97 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy