SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS लब्धे धमें नवशिवगति प्रापुरन्तर्मुहूर्तात् क्लेशैर्मुक्ता भविकनिवहाः साम्यपीयूषतुष्टाः । गेहस्यान्तर्भवति तिमिराकीर्णवस्तूपलम्भः कि नो पुंसां विलसति सुखात्सर्वतो दीप्रदीपे ॥२८॥ अन्येऽध्वन्याः स्वमतनिरता वर्षकोटीतपोभिः क्लिश्यत्कायाः शिवपदमगुर्न त्वदाज्ञाविहीनाः । किं जात्यन्धा अभिमतपुरप्रापणेऽलं भवेयु सम्यन्तोऽपि प्रसभमभितो देव जवाबलेन ॥२९॥ संसृत्यन्तमिभवमहातापनिर्वापहेतोः शिश्रायासौ जनसमुदयः शासन तावकीनम् । नो लीयन्ते किमु पथगतं शाइवल पान्थसार्था नो के ऽशोकाभिधवरतरुं ग्रीष्मभीष्मार्कतप्ताः ॥३०॥ त्वत्स्याद्वादेऽखिलनयमये विश्वलब्धप्रतिष्ठे स्फूर्जत्युच्चैः परमतगणा भान्ति नो लेशतोऽपि । तेजःपुजे प्रसरति दिवा भानवीये ऽथवा किं द्योतन्ते ऽन्तर्धरणिवलयं क्षुद्रखद्योतपोताः ॥३१॥ रागद्वेषौ विरुजत इतो हन्ति कामः प्रकामं मोहोऽत्यर्थं तुदति सततं चैकतः शत्रुवन्माम् । त्रायस्वातस्त्रिभुवनपते भीतभीतोऽहमद्य त्वत्पादाब्जं शरणमगम संश्रितानां शरण्यम् ॥३२॥ पारावारोत्तरणमनसो मानवा यानपात्रं मार्गभ्रष्टा अभिरुचितभूप्रापकं सार्थवाहम् । नानाव्याधिव्यथितवपुषः प्राप्य वैद्याधिराज मोमुद्यन्ते जिनवर यथा पेप्रियेऽहं तथा त्वाम् ॥३३॥ 98 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy