________________
अथ पट्टावली । श्रीवर्द्धमानजिनराजपदक्रमेण
श्रीआर्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ
संस्थापका यतिवरा गुरवो बभूवुः ॥६॥ तच्चारुपट्टकमला[ज]लराजहंसा
श्चारित्रमंजुकमला श्रवणावतंसाः । गच्छोधिपा बुधवरा जयसिंहसूरि
नामा[न उ-द्यदमलोरुगुणावदाताः ॥७॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः
सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः ।। आसंस्ततः सकलसूरिशिरोवतंसाः
सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥८॥ तेभ्यः क्रमेण गुरवो जिनसिंहसूरि
___ गोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेंद्रसिंहगुरवोऽखिललोकमान्या
धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥९।। पुज्याश्च सिंहतिलकास्तदनु प्रभूत
भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः
श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥ तेभ्योऽभवन् गणधरा जयकीर्तिसूरि
मुख्यास्ततश्च जयकेसरिसूरिराजः । सिद्धांतसागरगणाधिभुवस्ततोऽनु
श्रीभावसागरगुरूरुगुणा अभूवन् ।।११।। तद्वंशपुष्करविभासनभानुरूपाः
सूरीश्वराः सुगुण[शे]वधयो बभूवुः ।। षट्पदी। तत्पट्टोदयशैलशंगकिरणाः शास्त्रांबुधेः पारगा
भव्यस्वांतचकोरलासनलसत्पूर्णाभचंद्राननाः । श्रीमंतो विधिपक्षग[च्छ]तिलका वादींद्रपंचानना आसन् श्रीगुरुधर्ममूर्तिगुरवः सूरोंद्रवंद्यांहूयः ॥१२॥ तत्पट्टेऽथ जयंति मन्मथभटाहंकारशर्वोपमाः
श्रीकल्याणसमुद्रसूरिगुरवः कल्याणकंदांबुदाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com