________________
वधाय
236
અંચલગચ્છ દિગ્દર્શને तेऽपि चैत्यवासं विधाय श्री सिंहप्रभसूरिभिः सहस्थिताः। तत्र निवासिनः सर्वेऽपि तंतुवायका स्तेषामतीव भक्तिं चक्रः। तत्र क्रमेण श्री सिंहप्रभसूरीणां स्वर्गगमनानंतर ते श्री अजितसिंहयतयः सूरिषदार्यणपूर्वकं स्लैस्तंतुयायकादि श्राध्धै स्तेयां पट्टे स्थापिताः। अथैकदा पूरणचन्द्राभिधेनैकेन धनवता तत्रत्य तंतुवायकेज तेपामुपदेशतः संघसहित श्री शत्रुजयतीर्थयात्राकरणार्थ मनोरथ कृतः । तत स्तत् प्रार्थनया श्री अजितसिंहसूरयोऽपि तेन संघेन सह महताडंबरेण स्वर्णमिश्रित रूप्य निर्मितसुखपालस्था उपरि यियमाण सुपरिमितरक्त कौशेयच्छत्राः पार्श्वद्वयोश्वामरैर्वीज्यमाना अग्रचलदंडधरादि पंचविंशति सशस्त्र सुभटयुताः श्रावक श्राविकागणैर्जयजयारवेर्वर्धाप्यमानाः सौवर्णतानपरिकमितसहनटंकमूल्योपेत श्वेतोत्तरपटाच्छादित देहाश्चेलुः । तेपामत्यंत लावण्योपेतंराकाचंद्रनिभं मुखं दृष्टवा सर्वे जनाः पथि स्वचेतसि चमत्कृता स्तंकमपि भूपभूपकुमारं वा मन्यमाना नमस्कार परायणा जाताः । अन्य दर्शनीया अपि तन्मुखमुद्रां विलोक्य तत्तेजसा हृदि चित्रिता स्तत्पादयोः पेतुः । एवं पंचशतजनोपेतः स संघः क्रमेण चलन् ग्रामानुग्राममुल्लंधयन् सोनपुराख्य ग्रामाद्वहिः सरस्तटेपटकुटीरेषु स्थितः । अथ तस्य ग्रामस्याधिपतिः समरसिंहाख्यश्वापोत्कट क्षत्रियवंशोद्भव आसीत् । स च स्वभावतपवक्रूरः स्वपूर्वजानुसारेण स्वकीय शस्त्रोपेत द्विशतभटोपेतः सर्वदा पथिकादीनांवधन तेषां द्रव्यादि लंटनं करोति । अथ तेन स्वसुभट मुखतोऽस्य संघस्य तत्रागमन तद् ज्ञात्वा व्याघ्रइव क्रूरः समरसिंहो दुष्टः स्वसैन्य मेलयित्वा सरस्तटे रात्री समायातः तदा शस्त्रोपेतान् सर्वानपि सुभटान् दृएवा भीताः संघजना मौनमेवाधाय स्थिताः। तत स्तैः सुभटैः संघजनानां वस्त्राभूषणद्रव्यादि सर्वमपि सुखेनैव लुटितं। गुरूणां चापि सुखपालच्छत्रचामरादि सर्वस्वं ते गृहीतं । एवं विधं तेपामनाचारं विलोक्य कुध्धैर्गुरुभि स्तदैव गच्छाधिष्टायिकाया महाकालीदेव्याः स्मरणं विधाय स्तंभनभंत्रत्रयोगेण समरसिंह सहिताः सर्वेऽपि सुभटा स्तत्रैव सरस्तटे स्तंभिताः । ततोधीभूता स्ते सर्वेऽपि ततः पादमप्युत्पाटयितुमसमर्था जाताः । एवं प्रभाते जाते तान् सर्वानण्यश्मघटितानि वनिश्चलान् विलोक्य विस्मयं प्राप्ताः संघलोका स्तथैव तत्रस्थ निजाभरणादि वस्तूनि गृहीत्वा तान् निश्चलान् नृपसुभटान् यष्टिमुष्टिपादप्रहारादिभिभृशं कुट्टयामासुः । ततो गुरव स्तान् संघलोकान् तदातदनाचरणतो निवारयामासु । अथ निकटस्थ सोनपुर लोका एनं वृत्तांतं विज्ञाय तदाश्चर्य विलोकनार्थ तत्र सरस्तटे समागताः । तत्र निज भूपादि सकल सुभटानश्मनिर्मितानिवनिश्चलान् दुःखत श्च पूत्कारान् कुर्वतो दृष्टवा सर्वेषांहदयेष्वनुकंपा संजाता। इतोऽथ तस्य समरसिंहस्य माता तं वृत्तांत विज्ञाय द्रतंकुटुम्बयुता तत्र समागत्य करुणस्वेरण रुदनं कर्तुलना । तदा गुरुभि स्तस्त्या प्रोक्तं भो सुलोचने चेत्वं जीवहिंसां त्यक्तवा जैनधर्म स्वीकरोषि तदाहमेषां सर्वेषांमोचन करोभि । तत स्तयापि गुरूणां पादयोः प्रणम्य तत्स्वीकृतं । ततो दयान्वित गुरूभिरपिजलमात्रयित्वा तच्छ टातेभ्यः सर्वेभ्यो दत्ता। तत्कालमेव सर्वो मुत्कली भूय गुरुपादयोः प्रणताः । तत्प्रभृति च समरसिंहोऽपि सकुटुम्बो गुरूणां वचनैर्जीवहिंसाजनलुंटनाद्यनाचारान् परित्यज्य जैनधर्म स्वीचकार । ततः प्रमुदितः संघोऽपि प्रयाणं विधाय गुरुयुतः शत्रुञ्जयतीर्थे प्राप्तः । तत्राष्टदिनावधि प्रभुपूजादिधर्मकार्याणि कृत्वा पश्चाद्वलित्वा स संघा गुरवोऽपि पत्तने पुनः संप्राप्ताः ।
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com