________________
श्री अनाथमुनि
१९
शाको वादभयं गुणे खलभयं काये 'कृतान्ताद्भयं,
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाऽभयम् ॥९॥ भर्तृ ० ॥
अतस्त्वं सकलं संसारसम्बन्धं त्यक्त्वा हे मित्र ! शिवसुखायैव यतस्वेति ॥
तदाऽहं तस्य कथनस्य खण्डनमकरवम् । मम स्वकीयदृष्टान्तेनैवाऽहं तस्मै कथयामास यत् पश्यतु, मे पितरौ बन्धवो ललनाप्रभृतयश्च मयि गाढतरं स्निह्यन्ति । ते मां पश्यन्तः सन्त एव पश्यन्तः सन्ति । अहं घटिकामात्रमपि चिराद् दृश्येय यदि, तर्हि ते दूयन्तेतराम् । अस्मत्कुटुम्बे नाऽस्ति स्वार्थिकप्रेम किन्तु वाढतर आन्तरिकप्रेमा परस्परं वर्त्तते । एवं सर्व भोगादिसंयोग प्रत्यक्ष प्रेक्ष्य परित्यक्त्वा च तं परोक्षसुखाय को यतेत ? । या इमे कामा, कालिया जे अणागया ।
I
यतः -
को जाणेइ परे लोए, अस्थि वा णत्थि वा पुणो ॥ १० ॥ उ० अ० ५ ॥
संस्कृतच्छायाहस्ताssगता इमे कामाः, कालिका येऽनागताः । को जानाति परो लोकोऽस्ति वा नाऽस्ति वा पुनः ॥ १० ॥
१ मृत्यो र्भयम् | २ अतीव दुःखं प्राप्नुवन्ति । ३ अनुष्टुप् । ४ कालान्तरे प्राप्तुं योग्याः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
चरित्रम् १९
www.umaragyanbhandar.com