SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री अनाथिमुनि पदातीनां सन्ति । तथा च मम कोशाऽऽगारेऽअय्या लक्ष्मीरस्ति । यदहमभिलष्यामि तत्माप्तुं शकोमि । कस्याऽपि भोगस्य वस्तु मां दुरापं नाऽस्ति । कीदृशोऽपि रद्विषन्मया योद्धं न ३धृष्णुयादतो भवान विमृश्यैव ब्रूयात् । । यस्य कस्याऽप्यनाथ इति भाषणे भवता भवतोऽज्ञता-भ्रमितता-अविवेकता वाऽऽविष्क्रियत" इति ॥ मुनिरवीचन् “ नराधीश ! ममऽनतामहं प्रतिपादयामि यदि वा तेऽज्ञता वं सँल्लक्षयसि तत्तु कोऽपि तृतीयस्तटस्थजनोऽत्राऽभविष्यत्तहि सोऽकथयिष्यत्, किंच तवाऽग्रेऽहमत्र किश्चिद्वक्तव्यं वक्ष्यामि तच्छुत्वा पश्चात्स्वयमपि स्वमनुमंस्यसे यदज्ञस्त्वहं स्वयमेवाऽस्मीति । श्रुणु, प्रथमं त्वनाथशब्द: केन हेतुना योजितो मया तदपि त्वं नाऽवबुध्यसे। मम गृहे समृद्धि-नाऽऽसीत् कोऽपि वा कौटुम्बिको नाऽभवदतोऽहमनाथोऽस्मिवाऽन्यथा, तदपि त्वयाऽज्ञातं वर्तत" इति। श्रेणिक नरेशोऽपृच्छन् “मुने ! तदाऽनाथशब्दस्यको ५वाच्यार्थः १ कथं च भवाननाथीभूतस्तच्छ्रोतुमिच्छामि, किं तद्भवान्मां श्रावयिष्यति कृपये "ति ?॥ वाचंयमी कथितवान् “ हे नरपते ! यदि चेद्विक्षेपं विमुच्य शान्या वं शुश्रुषुम्तर्हि तदहं नूनं मुदा श्रावयि-10 ज्यामी "ति॥ चरित्रम् १ दुःखेन प्राप्तुं योग्यम् । २ शत्रुः । ३ साहस कुर्यात् । ४ प्रकटयसि । ५ यथार्थाऽर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034738
Book TitleAnathimuni Charitram
Original Sutra AuthorN/A
AuthorNagchandrajitswami
PublisherVirchand Lalchand Shah
Publication Year1934
Total Pages40
LanguageSanskrit, Prakrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy