________________
श्री अनाथिमुनि
१३
'मुनिराह महाराज!, अनाथोऽस्मि पतिर्न मे।
अनुकम्पाकराऽभावात् , तारुण्येऽप्यातं व्रतम् ॥४॥ प्रा०॥ मुनिना प्रतिभाषितं "हे भूमिपाल !न मयि काचिदाऽऽपत्तिरापतिता तथैव न केनापि सह कलिरपि समजायत । गृहसामे केवलमेक एव हेतुरस्ति स च मेऽनाथता, अर्थान मे कोऽपि नाथः-त्राणः-शरणो वाऽऽसीदतोऽहं गृहाश्रमेऽवस्थानमयुक्तमजान " मिति ।।
श्रेणिकभूमीश्वरोऽपृच्छत् “किं भवाननाथ आसीत् ? । भवदाश्रयदाता भवद्रक्षको वा कोऽपि जनो नाऽमिलदि" ? ति ॥
___ मुनिराह " अथ किं, अहमनाथोऽभवमि" ति ॥ श्रेणिकनृपोऽवदन " मया तु न सम्भाव्यतेऽदः । यतः
__ वर्णादिनाऽमुना साधो !, न युक्ता ते ह्यनाथता !। ईदृक् श्रीमतां सौन्दर्य, मोहन चौजः सन्त्यपि न कोऽपि भवदाश्रयदाता तदहं कथं मन्ये । तथापि | १ अनुष्टुप् । २ अनुष्टुप् , पूर्वार्धः ।
चरित्रम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com