SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री वाहनादीनि च कानिचिदपि नाऽवलोक्यन्ते । किं तस्यैतादशैव स्थितिः स्यात् । तदपि कथं सम्भाव्यते । अनाथिमुनि 10 अस्य पनिटल तेजसा तु तद्भाति यदेष पुरुषो भाग्यनिधि भवेत्, सम्माप्तसम्पत्तिश्च स्यात् । किन्तु स किं त्यक्तविभवः स्यात् । यदि चेद्विसृष्ट-समृद्धिक स्तर्हि किमर्थम् । एतादृशा बहुविधास्ता भूधरमनसि क्रमशः समुत्थिताः । किन्त्वेतेषां प्रश्नानां निराकर्ताऽन्यः कोऽपि ना तत्र नाऽऽसीत् ॥ ततः श्रेणिकभूनाथो वाहनादव सोमं भव्याकृतिपुरुषमुपागच्छत् । सागिपुरुषनीतिरोतिज्ञो भकान्तो नियु"क्तकरः सन् मस्तकं प्रणाम्य शिष्टाचारं व्यधात्। ततो विरक्तयुवकस्य लक्ष्य स्वाभिमुखमाकृष्टुं वाग्व्यापारमारभत॥ असौ दिव्यमूर्तिरात्मा नाऽन्यः कोऽपि किन्तु स एको महाव्रतधरो मुनिरासीत् । तरुमूले पद्मासन विधाय शान्तिपूर्वकं समाधिदशायामसौ लीनोऽभवत् । भूपालस्य प्रश्नावलेरारम्भात्पूर्व श्रमणेन स्वध्यान पारित, भूमिपतिना च सह वार्तालाप आरब्धः। भूमीशोऽपृच्छद् " भो भाग्यविधायक ! तरुणावस्थायामस्यां गृहस्थाश्रमः किमर्थं त्यक्तो भवता ? । किं श्रीमति काऽप्यापदाऽऽपतिताऽभूत् ? केनचित् सह वा कलि र्जातोऽभवदि"? ति ॥ चरित्रम् १ ललाटम् । २ नरः । ३ उत्तीर्य । ४ ब्रद्धाञ्जलिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034738
Book TitleAnathimuni Charitram
Original Sutra AuthorN/A
AuthorNagchandrajitswami
PublisherVirchand Lalchand Shah
Publication Year1934
Total Pages40
LanguageSanskrit, Prakrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy