________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमतकृतं भवेत् तस्यैव साधोस्तद् आहारपानीयं न कल्पते, अन्येषां तु कल्पते । ३ शय्यातरः-शय्यातरस्य उपा- कल्पद्रुम
श्रयदायकस्य चाहार-पानीयं न कल्पते । तत्र एक दिनम्-इन्द्रः शय्यातरः, द्वितीये दिने देशाधिपः, तृतीये कलिका ॥२॥ दिने ग्रामाधिपः, इति गीतार्था वदन्ति । ४ राजपिण्डः-राजा छत्रधरः, तस्य पिण्डः श्रीआदीश्वर-महावी-IN
वृत्तियुक्तं.
व्याख्या. रयोः साधूनामेव न कल्पते। द्वाविंशतितीर्थंकरसाधूनां तु कल्पते । ५ कृतकर्म-लघुना साधुना वृद्धस्य साधोश्चरणयोर्वन्दनकानि दातव्यांनि । ६ व्रतम्-व्रतानि श्रीआदीश्वर-महावीरयोः साधूनां पञ्च महाव्रतानि
१. अशन-पान-खादिम स्वादिम-वस्त्र-पात्र-कम्बल रजोहरण-सूची-पिष्पलक-नख-रदन-कर्णशोधनकलक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्ग-वसतिदौर्लभ्यादिबहुदोषसंभवात् । तथा तृण-डगल-भस्म-मल्लकपीठफलक-शय्या-संस्तारकलेपादिवस्तूनि, चारित्रेच्छुः सोपधिकशिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते ॥ २. अशनादिचतुष्कम् , वस्त्रम् , पात्रम् , कम्बलम् , रजोहरणं चेति अष्टविधः पिण्डः प्रथम चरमजिनसाधूनां निर्गच्छद्-आगच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य, | अपशकुनबुद्ध्या शरीर-व्याघातस्य च संभवात् , खाद्यलोभ-लघुत्व-निन्दादिदोषसंभवाच्च निषिद्धः । द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते ॥ ३. वन्दनकं तद् द्विधा अभ्युत्थानम् , द्वादशावत च । तत्सर्वेषाम् अपि तीर्थेषु साधुभिः परस्परं | यथा दीक्षापर्यायेण विधेयम् । साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः । पुरुषप्रधानत्वाद् धर्मस्य ।।
For Private and Personal Use Only