________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा स्थविरावलिं वाचयन्ति । अयं द्वितीयोऽधिकारः । पश्चात् चरित्रम्-चरित्रशब्देन साधुसमाचारीम्-वाचयन्ति । अयं तृतीयोऽधिकारः । यथा अस्यां गाथायां त्रयोऽधिकारा उक्ताः, तथैव विस्तरेण प्रकाश्यते-अथ प्रथमम्-श्रीआदीश्वर-श्रीमहावीरस्वामिनोर्यतीनामाचारः कथ्यते । गाथा
आचेलुक्कु-देसिअ-सिज्जायर-रायपिंड-किअकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसवणकप्पो।
श्रीआदिनाथ-महावीरयोर्यतीनामयम् आचारः १ अचलेत्वम्-मानोपेतं धवलं वस्त्रं धारयन्ति । २ औद्देशिIN कम्-एकस्य साधोर्निमित्तं कृतं सर्वेषां साधूनां न कल्पते । द्वाविंशतितीर्थकरसाधूनां तु यस्य साधोर्निमित्तं
। १. आचेलक्य-औद्देशिक-शय्यातर-राजपिण्ड-कृतकर्म । व्रत-ज्येष्ठ-प्रतिक्रमणम् , मासं पर्युषणाकल्पः ॥ २. अजितादिद्वाविंशतिजिनतीर्थसाधूनाम् ऋजुप्राज्ञानां बहुमूल्य-विविधवर्णवस्त्रपरिभोगानुज्ञासदभावेन सचेलकत्वमेव, केषांचित् च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि, इति अनियतस्तेषाम् अयं कल्पः । श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेत-जीर्णप्रायवस्त्रधारित्वेन ममत्वरहितत्वादू अचेलकत्वं सर्वजनप्रसिद्धमेव । यथा सत्यपि जीर्णवस्त्रे तन्दुवाय-रजकादींश्च वदन्ति-शीघ्रम् अस्माकं वस्त्रं देहि, वयं नग्नाः स्म' इति । एवं साधूनां जीर्णप्रायवस्त्रसद्भावेऽपि अचेलकत्वमिति ॥ ३. साधुनिमित्तं कृतम् अशन-पान-खादिम-खादिम वस्त्र-पात्र-वसतिप्रमुखम् , तच्च प्रथम-चरमजिनतीर्थे एकं साधुम् , एकं साधुसमुदायम् , एकम् उपाश्रयं वा आश्रित्य कृतं तत् सर्वेषां साध्वादीनां न कल्पते॥
For Private and Personal Use Only