________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ख्याति ? श्रीपर्युषणाकल्पनामाध्ययनं श्रीदशाश्रुतस्कन्धस्याऽष्टममध्ययनम् , 'पर्युषणाकल्प'-नामकं वर्तते तध्ययनं सअर्थम् अर्थसहितम् , प्रयोजनसहितं सहेतुकम् , यथैकस्मिन् मासे विंशतिदिनाधिके पर्युषणाकरणे “जओ णं पाईणं आगारेहिं” इत्यादिरूपम् । सकारणं कारणसहितं अपवादयुक्तं यथा कारणे 'खुरमुंडेण, इत्यादिरूपं, ससूत्रम्-सूत्रसहितम् , सअर्थ अर्थसहितम् , सूत्रार्थाभ्यामुभाभ्यां सहितम् , सव्याकरणम्-प्रश्नोत्तरसहितम् , विस्मरणखभावानां शिष्याणां कृपया भूयो २ मुहुर्मुहुः उपदिशतीति। एवं श्रीभद्रबाहुखामी श्रीमदर्द्धमानस्वामिवाण्या खशिष्यान् वदति, अनया रीत्या गुरूणामनुक्रमो दर्शितः। यथा श्रीमहावीरेण गणधरेभ्य | उपदेशो दत्तस्तथाऽहं तुभ्यमुपदेशं ददामि, इति श्रीभद्रबाहुस्वामी चतुर्विधसङ्घस्याऽग्रे श्रीकल्पसूत्रमुपदिशति स्म॥ अस्माभिरपि श्रीगुरूणां प्रसादाद्यथामति श्रीसङ्घाऽग्रे मगलार्थ श्रीकल्पसूत्रमधिकारचयसहितं वाचितम्, श्रावितम् । अत्र वाचनां कुर्वतामस्माकं मात्राऽक्षराऽर्थे_नाधिककथनाद् दूषणं यल्लग्नं भवेत् तस्य श्रीसङ्घसमक्षं मिथ्यादुष्कृतमस्ति । श्रीसङ्घनाऽपि श्रीकल्पसूत्रं शृण्वतां निद्रा-विकथा-प्रमादैरभक्तिः कृता स्यात् तस्य त्रिधा मिथ्यादुष्कृतं दातव्यम् । अस्मिन् पर्वण्याऽऽगते, एके भाग्यवन्तः दानं ददति । एके शीलं पालयन्ति । एके तपस्तप्यंति । एके जिनपूजां कुर्वन्ति । एके साधर्मिकाणां वात्सल्यं भक्तिं कुर्वन्ति । एके प्रभावनां कुर्वन्ति एतानि मङ्गलकायोणि प्रमाणीभवति । तत्र देव-गुर्वोः प्रसाद इत्यग्रेतनवर्तमानयोगः॥ श्रीकल्पसूत्रवरनाममहागमस्या गूढार्थभावसहितस्य गुणाकरस्य ॥ लक्ष्मीनिधेर्विहितबल्लभकामितस्य । व्याख्यानमाप नवमं परिपूर्तिभावम्
For Private and Personal Use Only