________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मस्याऽयमेव सारः, उपशमप्रधानं चारित्रं पालयेत् । श्रावकेणाऽपि क्षन्तव्यम् , क्षामयितव्यं यथा-उदायीनृप-श्चण्डप्रद्योतनभूपेन साई क्षामणां चकार । तद्यथा-चम्पायां पुर्याम् आजन्मलोलुपः कुमारनन्दी वर्ण-16
कारो द्रव्यवलेन सुरूपां स्त्रीणां पञ्चशतीं परिणीतवान् । एकदा हासाग्रहासयोः रूपं दृष्ट्वा व्यामोहितः । तयोः प्रार्थनां चकार । तदा ताभ्यामुक्तः- पञ्चशैलद्वीपे चेत् त्वमागमिष्यसि तदा त्वां परिणेष्यावः, इत्युक्त्वा गते । सोऽपि तदूचनाद् एककोटिद्रव्यं दत्त्वा एकेन वृद्धनिर्यामकेन समं पोते स्थित्वा पञ्चशैलद्वीपाय चचाल । समुद्रमध्ये एकत्र जलावर्ते वटस्तरोस्तले पोतो यनाम, तदा निर्यामकवचनात् कुमारनन्दी वटस्य शाखामारुध, तत्र भारण्डपक्षिणश्चरणमाश्लिष्य पञ्चशैलद्वीपे, पञ्चशैलपर्वते जगाम । तदा तत्राधिष्ठायिन्यौ हासाप्रहासाख्ये व्यन्तों ऊचतु:-अस्मत्प्रेषितस्त्वं गृहे गत्वा अस्मद्ध्यानसहितम् 'इङ्गिनीमरणं कुरु । येनाऽस्मत्पतिभविष्यसि।इत्युक्त्वा ताभ्यामुत्पाव्य गृहे मुक्तातत'इङ्गिनीमरणं' कर्तुकामो गृहे आगत्य नागिलश्राद्धेण मित्रेण इङ्गिनीमरणादू वार्यमाणोऽपि इङ्गिनीमरणं कृत्वा, मृत्वा तयोर्भा पञ्चशैलपर्वते समुत्पन्नो विद्युन्माली नामा देवः। एकदा इन्द्रादयो देवानन्दीश्वरद्वीपे मिलिताः। तत्र विद्युन्माल्यपि हासा-प्रहासासहितो मृदङ्गनिगरणान् मुहुर्मुहुरुत्तारयन् गृहीतदीक्षेण नागिलश्राद्धेन मृत्वा द्वादशमे देवलोके समुत्पन्नेन देवेन दृष्टः, प्रतिबोधितः। अरे |मित्र ! त्वया तुच्छभोगार्थ जन्म हारितम् । अथ तव निस्ताराय धर्ममार्गमुपदर्शयामि, त्वं गोशीर्षचन्दनस्य
For Private and Personal Use Only