________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सितव्यः स्यात्। 'ताम्बूलकस्य सटितपत्रवद् गणान्निष्काशितव्यः' एवं सम्यगित्यनेन क्रोध-मान-माया-लोभा-IN दयः कषायाः साधुभिर्न कर्त्तव्याः । अत्र क्रोधादीनां चतुरुदाहरणानि वाच्यानि तथा क्रोधपिण्डः १,मानपिण्डः २, मायापिण्डः ३, लोभपिण्डः ४ एते चत्वारः पिण्डा अकल्पनीयाः। “कोहे घेवरखग्गो। माणे सेवइयखुडुए नायं ॥ माये आसाढभूई । लोहे केसरियसाहुत्ति ॥१॥" क्रोधपिण्डविषये घृतपूरकः साधुर्यथा शापं दत्त्वा घृतपूरान् जग्राह तथा क्रोधपिण्डो न ग्राह्यः १ । मानपिण्डविषये यथा सेविभोज्योपलक्षितः साधुरेको गृहस्थिन्या साई मानं कृत्वा लोकसमक्षं तत्पतिसमीपे गत्वा "श्वेताङ्गुलिः १ वगोड्डाही, २ तीर्थस्लाता च ३ किङ्करः ४॥ इदनो५रिषणश्चैव, ६ षडेते गृहिणीवशाः॥१॥” एतेषां कथामुखेन कथनीयम् , तद्विगोपनां कृत्वा, नक्रोपरि अङ्गुलिं घर्षयन् , कृपणगृहस्थान तर्जयित्वा घृतखंडमिश्रितसेवभोज्येन पात्रं भृत्वा आनयामास, एवं मानपिण्डो न ग्राह्यः २ । मायापिण्डे यथा आषाढभूतिः साधुर्मोदकान् नवीनं रूपं विधाय जग्राह तथामायापिण्डोन ग्राह्यः ३। लोभपिण्डविषये यथा कश्चिद्मासक्षपणकः साधुः कुत्रचित् पारणाऽवसरे सिंहकेसरिकमोदकान दृष्ट्वा धर्मलाभस्थाने सिंहकेसरिकाः २ इति गृहे २ वदन् एकेन श्राद्धेन गृहे आहूय मोदकस्थालं भृत्वा, दर्शयित्वा तचित्तं स्वस्थाने समानीतम् । एवं लोभपिण्डो अपि न ग्राह्यः ४ ॥ एषा| त्रयोविंशतितमी समाचारी ॥ २३ ॥ अथ चतुर्विंशतितमी समाचारी कथ्यते ।
For Private and Personal Use Only