________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
कल्पसूत्र
कारणं ? गुरुराह-अहो शिष्य ! सप्त स्नेहायतनानि उक्तानि-सप्त शरीरे पानीयस्थितिस्थानानि सन्ति, ता
न्याह-पाणिर्हस्तः १, पाणिरेखा २, नखाः ३, नखशिखा ४, ध्रुवौ ५, अधरोष्टः ओष्ठाऽधोभागस्य, ओष्ठश॥२६७॥
ब्देन दाढिका ६, उपर्योष्ठः उपरिभागसत्क ओष्ठः श्मश्रुसमाधाररूपः ७ एतानि सप्त पानीयस्थितिस्थानानि ।। यदा एतानि सप्त स्नेहस्थानानि विगतोदकानि-पानीयरहितानि जातानि-शुष्कानि-इति साधुर्जानाति तदा अशनाद्याहारं कर्तुं कल्पते । एषा पञ्चदशमी समाचारी ॥ १५ ॥ अथ अष्टसूक्ष्मखरूपप्रतिपादिका षोडशमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा, निग्गंथीण वा इमाइं अट्ठ सुहुमाइं, जाई छउमत्थेण निग्गंथेण वा, निग्गंथीए वा अभिक्खणं अलिक्खणं जाणियवाइं, पासिअवाइं, पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४,
पुप्फसुहुमं ५, अंडसुहुमं ६, लेणसुहुमं ७, सिणेहसुहुमं ८ ॥४४॥ KI अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनाम् च इमानि अष्ट सूक्ष्माणि सूक्ष्मजीवानां स्थानानि भगवद्भिः। || प्ररूपितानि तानि छद्मस्थसाधुभिः, साध्वीभिश्चाभीक्ष्णं २ वारं वारं ज्ञातव्यानि, प्रतिलेखितव्यानि भवेयुः, यत्र
॥२६७॥
For Private and Personal Use Only