________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥२२९॥
न्दरसरि-श्रीश्यामाचार्य-श्रीस्कन्दलाचार्य-रेवतीमित्र-श्रीधमें-श्रीभद्रगुप्त-श्रीलुप्त-श्रीववस्वामिमामाल एला कल्पद्रुम यगप्रधाना दशपूर्षधरा जाता तथा पूर्व तु संक्षेपवाचनया स्थविराली उक्ता । सांप्रतं विस्तरवाचनथा
कलिका स्थविरांक्लीमाह
वृत्तियुक्त.
व्याख्या. अत्राऽऽलापके इदं रहस्यम् , विस्तरवाचनायां बहवो भेदा वाचनाभेदात्, लेखकवैगुण्याद जाताः। तत्र स्थविराणां च शाखाः, कुलानि च प्रायः सांप्रतं नाऽवबुद्ध्यन्ते, नामान्तराणि तिरोहितानि वा भविष्यन्ति, अतो निर्णयः कर्तुं न पार्यते । पाठेषु, शाखासु कचिदादर्श कोडुम्बाणीति दृश्यते, कचित् कुण्डधारीति, तथा कचित्र पुण्यपत्तिया इति, कचिद् वण्णपत्तिया इति । एवं कुलेष्वपि क्वचिद् उल्लगच्छन्त इत्येवं पाठः, कचिद् अहउल्लगन्थन इति । तस्मादत्र बहुश्रुता एव प्रमाणम् । माभूदुत्सूत्रमिति।तत्र कुलम् एकाचार्यसन्ततिः, एकवाच-जा नाऽऽचारयतिसमुदायो गणः, शाखास्तु तस्यामेव सन्ततौ पुरुषविशेषाणां पृथक् पृथग अन्वयाः, अथवा विवक्षिताऽऽद्यपुरुषसन्तान:; यथा वहरवामिनाम्ना वहरी शाखा अस्माकम् । कुलानि तच्छिष्याणां पृथक् पृथगन्वयाः, यथा चान्द्रं कुलम्, नागेन्द्रकुलमित्यादि । 'अहावच्चा इति यथाथोनि अपत्यानि-न पतन्ति येन जातेन दुर्गती, २२९॥ अयशःपङ्के वा पूर्वजास्त अपत्यम्। सुशिष्याश्च सघृत्ताः पूर्वजान गुरून न पातयन्ति, प्रत्युत भासयन्तीति । अत एव अभिज्ञाताः प्रत्याख्याताः। स्थविरावलीसूत्रपाठो यथा
For Private and Personal Use Only