SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थेरे इंदभूई, थेरे अज्जसुहम्मे य सिद्धिगए महावीरे पच्छा दुण्णि वि थेरा परिनिव्वुया ॥ जे इमे अजत्ताए समणा निग्गंथा विहरंति, एएणं सवे अजसुहम्मस्स अणगारस्स आवञ्चिजा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥४॥ श्रीमहावीरस्य ज्येष्ठ इन्द्रभूतिनामा अनगारो गौतमगोत्रीयः स पञ्चशतश्रमणान् वाचयति-वाचनां ददाति १। मध्यमोऽग्निभूतिनामा अनगारो गौतमगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति २। कनिष्ठो लघुर्वायुभूतिनामा गौतमगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति, एते त्रयोऽपि भ्रातरः३। चतुर्थ आर्यव्यक्तनामा भारद्वाजगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति ४ । पञ्चमः सुधर्मखामी अग्निवैश्यायनगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति षष्ठोमण्डितपुत्रो वासिष्ठगोत्रीयः, मण्डितश्चासौ पुत्रश्च धनदेवस्य मण्डितः पुत्रः। केचित्तु एवं व्याख्यानयन्ति-मण्डित इति धनदेवस्य नामान्तरम् , तस्य पुत्रो मण्डितपुत्रः, स सार्वत्रिशतश्रमणान् वाचयति ६।सप्तमो मौर्यपुत्रः काश्यपगोत्रीयः सोऽपि सार्वत्रिशतश्रमणान् वाचयति । अत्र मण्डितमौर्यपुत्रयोरेकमातृत्वेन, भ्रात्रोरपि यद्भिन्नगोत्राभिधानं तत् पृथगजनकापेक्षया। यतो मण्डितस्य पिता धनदेवः, मौर्यपुत्रस्य तु सूर्यः पिता, माता तुद्वयोरपि एकैव विजयादेवी।एवं कृतेन विरोधः। यतः, तत्र देशे एकस्मिन् पतौ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy