SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ८९ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir तत्र यानि निधानानि, त्रिकेषु त्रिमार्गेषु, चतुर्मुखेषु चतुर्द्वारदेवगृहेषु, महापथेषु राजमार्गेषु यानि निघानानि निखातानि । तथा पूर्व ग्रामा वसन्तः पश्चाद् उद्वासत्वं प्राप्ताः, तत्र यानि निधानानि । तथैव नगरस्थानेषु, तथा ग्रा माणां जलनिस्सरणस्थानेषु, तथा आपणेषु-हट्ठेषु, देवकुलेषु देवगृहेषु, सभासु जनोपविशनस्थानेषु, भोजनकरणस्थानेषु वा यत्र पान्थजना आगत्य रसवतीपाकं कुर्वन्ति तत्र यानि निधानानि सन्ति; तथा प्रपासु पानी यशालासु तथा आरामेषु कदलीवनेषु यत्र नगरलोकाः स्त्रीपुरुषाः क्रीडां कुर्वन्ति, तत्र यानि निधानानि । उद्यानेषु वा यत्र पुष्पवृक्षाः प्रचुरा भवन्ति, पुष्पलतानि गृहाणि भवन्ति, उष्णकाले समागत्य च्छायायां रमन्ते तानि नगरसमीपे उद्यानानि उच्यन्ते, तत्र यानि निधानानि तिष्ठन्ति । तथा वनेषु एकजातीयवृक्षेषु, तथा वनखण्डेषु अनेकजातीयवृक्षेषु, श्मशानेषु, शून्यगृहेषु गृहाणां तथा पर्वतानां सन्धिषु, पर्वतानां गुहासु, पर्वतानां विस्तीर्णशिलातलेषु, उपस्थानेषु, आस्थानमण्डपेषु राजसभास्थानेषु तथा पर्वतम् उत्कीर्य मध्ये यानि द्रव्याणि क्षिप्तानि; तथा यत्र कुटम्बिनो जना वसन्ति तत्र यानि निधानानि खातानि एतेषु स्थानेषु प्रायेण कृपणा निर्भयं स्थानं ज्ञात्वा द्रव्यं प्रक्षिप्यन्ति । तथा अपरेष्वपि स्थानेषु यानि कानिचिद् निधनानि आसन् तानि निधनानि ते इन्द्रस्य आज्ञया, धनदस्य सेवकाः सिद्धार्थस्य राज्ञो गृहे आनयन्ति । For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्त. व्याख्या. ४ ।। ८९ ।।
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy