SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बिआए रायहंसीसरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ ८७॥ ततः सिद्धार्थः क्षत्रियो राजा वमलक्षणपाठकान् विसर्य, सिंहासना उत्तिष्ठति, उत्थाय च यत्र त्रिशला क्षत्रियाणी प्रतिच्छदान्तरे स्थिताऽस्ति तत्रागच्छति, आगत्य त्रिशलाक्षत्रियाणां प्रति इति वदति-हे देवाऽनुप्रिये! त्वया प्रधानाः स्वमा दृष्टाः। एतेषां खमानां प्रभावात् तव चक्रवर्ती, तीर्थकरो वा पुत्रो भविष्यति। यत् वनलक्षणपाठकैरुक्तं तत् त्वया श्रुतम् इति पृष्ट्वा पुनरपि प्रीतिवशात् तेषां खानलक्षणपाठकनां सर्वं वाक्यं राज्ञा त्रिशलायै श्रावितम् , तदा सा त्रिशलाऽपि एतद् वाक्यं श्रुत्वा हर्षिता, संतुष्टा हर्षेण प्रफुल्लितहृदया सती उभी हस्तौ संयोज्य, मस्तके आवर्त कृत्वा उवाच-हे खामिन्! एवं एव यद्भवद्भिरुक्तं तत्तथैव, अत्राऽर्थे संदेहो नास्ति इति कृत्वा यावत्-त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा उत्थातुमनस्का ज्ञाता तदा सिद्धार्थेन विसर्जिता सती नानाविधैर्मणि-रत्न-स्वर्णैर्घटितात् सिंहासनाद् उत्थाय यादृश्या गत्या स्वकीये आवासे समागच्छति सा गतिरुच्यते-कीदृश्या गत्या त्रिशला गृहम् आगता ? अत्वरितया उत्सुकत्वेन रहितया, अचपलया कायN चापल्येन रहितया, असंभ्रान्तया अस्खलितया, अविलम्बतया मार्गे गच्छन्ती विलम्बादिकम् अगृह्णती तस्माद् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy