SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥८ ॥ क राजा सिद्धार्थः तत्र आगच्छन्ति, तत्र आगत्य करयुगलं संयोज्य सिद्धार्थराजानं जयेन, विजयेन वर्धापयन्ति । कल्पद्रुम जयः खकीयदेशे, विजयः परदेशे । एवं जयेन, विजयेन वर्धापयन्ति, पश्चात् पुन आशीर्वादं प्रयच्छन्ति- कलिका दीर्घायुर्भव वृत्तिमान् भव सदा श्रीमान् यशस्वी भव । प्रज्ञावान् भव भूरिसत्त्व-करुणादानकशोण्डो भव ॥ वृचियुक्त भोगाख्यो भव भाग्यवान् भव महासौभाग्यशाली भव । प्रौढश्रीभव कीर्तिमान् भव सदा विश्वोपजीवी भव व्याख्या. ॥१॥ पुनः श्रीसिद्धार्थभूपं श्रीपार्श्वनाथस्य श्रावकं ज्ञात्वा, श्रीपार्श्वनाथस्य स्तुत्या आशीर्वादं ददति दशावतारो वः पायात् कमनीयाञ्जनद्युतिः। किं दीपो नहि श्रीपः किन्तु वामाङ्गजो जिनः॥१॥ दशायां वृत्तिकायां अवतारो यस्य स दशावतारः । कमनीया मनोज्ञा अञ्जनेन कजलेन सदृशा द्युतिर्यस्य स कमनीयाऽञ्जनद्युतिः। एतादृशो यः कश्चिद् वर्तते सवो युष्मान् पायात्-रक्षतु, एतादृशः किं दीपः तदा उच्यतेदीपो नहि, किन्तु श्रीप:-श्रियं पाति इति श्रीप:-कृष्णः ? तदा उच्यते-श्रीपोऽपि नहि, किन्तु वामाङ्गजो। जिन:-वामाया अङ्गजः पुत्रो वामाङ्गजः-श्रीपार्श्वनाथो जिनः । श्रीपार्श्वनाथस्तु दशाऽवतारो दश अवतारा प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघु-वृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एषा शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये ॥८२॥ मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुषैर्यधावद्ध्यतिकरे निवेदिते कथम् एते स्थितिरहिताः परस्परम् असंबद्धा युद्धादि करिष्यन्ति ? इति राज्ञा निर्भर्त्य निष्काशिताः इति हेतोः ते स्वप्नपाठका एकतो मिलित्वाऽऽगताः ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy