SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ ५९॥ ततस्त्रिशला क्षत्रियाणी सिंहं पश्यति । कीदृशः सिंहः? मुक्ताहारप्रकर-क्षीरसमुद्र-चन्द्रकिरण-जलकण कल्पद्रुम रजतपर्वतवद् धवलवर्ण यस्य शरीरमस्ति । पुनर्यः सिंहो रमणीयः, प्रेक्षणीयः । तथा यस्य सिंहस्य स्थिरा, कलिका दृढा, प्रधानाच प्रकोष्ठिकाऽस्ति । पुनर्यस्य सिंहस्य मुखं वृत्ताभिः, उज्वलाभिः, तीक्ष्णाभिर्दाढाभिरलंकृतं वृत्चियुक्त. वर्तते । पुनर्यस्य सिंहस्य ओष्ट एतादृशो दृश्यते यथा केनचित् चित्रकारेण सम्यक् कमलस्य पत्रं चित्रितम् व्याख्या. इव । रक्तकमलपत्रवद् मुखाद् निर्लालिता जिह्वा शोभते । पुनरपि यस्य सिंहस्य पिङ्गले, विद्युत्सदृशे नयने स्तः, यथा मूषायां कनकं गालितं सन् आवर्तायमानं वर्तुलं भवति तथा उभेऽपि नयने चञ्चले वर्तते । तथा यस्य सिंहस्य विस्तीर्णा, पुष्टा च जङ्घाऽस्ति । पुनरपि यः सिंहो दृढस्कन्धोऽस्ति । पुनरपि यः सिंहः केसरसटाभिर्विराजते । ताः केसरसटाः कीदृश्यः सन्ति-विशदाः, सुकुमालाः, लक्षणैः प्रशस्ताः, विस्तीर्णाश्च । पुनर्येन सिंहेन भूमौ लाङ्गुलम् आस्फाल्य पश्चाद् उत्पाठ्य सम्यगरीत्या कुण्डलाकारं कृतम् अस्ति । पूच्छाऽयं द्वयोः । कर्णयोरन्तराले आनीतमस्ति । पुनरपि यः सिंहः सौम्यः, दुर्दान्तो नास्ति, सौम्याकारो लीलां कुर्वन् आका- ५९ ।। शाद् उत्तरन्, निजमुखे प्रविशन् एतादृशः सिंहस्तीक्ष्णनखस्त्रिशलया तृतीये खमे एतादृशः सिंहो दृष्टः ॥३॥३५ ।। ततश्चतुर्थे खप्ने लक्ष्मीर्देवतां पश्यति For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy