________________
* व्यवहाररत्नम् * चारः * प्रसन्नभूभौ पुरसन्निधाने प्रोत्तङ्गदेशेषु खलं विदध्यात् ॥ बन्ध्यप्रदेशे पथि चैव निम्ने भीरुप्रदेशे खलको न कार्यः ॥ ११ ॥ * अथ मेधि (दि)स्थापनविचारः * वटोदुम्बरनीपानां शाखोटेंवदरस्य च । शाल्मलेर्मुशलेनैव मेधि(दि)कुर्यादिचक्षणः ॥ १२॥ कपित्थविल्ववंशानां न च मेधिः(दिः) कदाचन ।। न पौषे न च रिक्तायां न कुजार्किदिने तथा ॥१३|| मृदुक्षिपचरद्धेषु खाते द्रव्यं नियुज्य च । संपूज्य धान्यवद्धानां मेदि संस्थापयेबुधः ॥ १४ ॥ * अथ कणमर्दनार्थदिवसमाह * भाग्याठमश्रतो मुले धातृमंत्रमघासु च । पौष्णेन्दः शुभाहे च धान्यानां मर्दनं शुभम् ॥ १५ ॥ * अथ बीजरक्षणदिवसमाह * रोहिणी रेवती मुलं स्वाती ह. स्तो मृग स्तथा । आषाढ़ोत्तरयुक्ता च तथा भाद्रपदा मघा ॥ १६ ॥ सस्यादिसर्वधान्यानां शुभेवारे स्थिरोद॑ये । गर्गादिमुनिभिः प्रोक्ता प्रशस्ता बीजवन्धने ॥ १७ ॥ * अथ गृहादौ धान्यादिस्थापनविचारः * रोहिण्युत्तरपुष्येषु भरणीशकनेते ॥ पौष्णार्काश्विविशाखासु हरिमित्रपुनर्वसौ १८
१ ऊपरे। २ मयस्थाने। ३ स्वार्थेऽतकः । ४ नीपः कदम्बः । ५सा (सि) होद इति प्रसिदः । ६ उत्तग्युक्ता । • स्विरलग्ने । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com