________________
* व्यवहाररत्नम् शकुनं च विचारयेत् ॥४४॥ अथ लमशुद्धिः * मेषे भूयो भवेद्यात्रा कर्कटे नाशमाप्नुयात् ॥ तुलोदये भवेद्भयाधि न्यनाशो मृगोदये ॥ ४५ ॥ अन्ये येराशयश्चाष्टौ वास्तुकार्ये शुभावहाः ॥ तेषां नवांशकाद्यास्तु भागास्तत्तुल्यपाकेदाः ॥ ४६ ॥ अथ सामान्यतो ग्रह शुद्विविचारेः * त्रिषड्दशायसंस्थाश्च सर्वे खेटाः शुभावहाः । त्रिकोणेऽप्यथवा केन्द्रे शुभा एव शुभप्रदाः ॥४७॥ * अथ गृहप्रवेशविचारः * वास्तौ वापि गृहारम्से यदुक्तञ्च शुभाशुभम् ।। तदेवात्रापि विज्ञेयं प्रवेशे नव्यवेश्मनः ।। ४८ ॥ किञ्चित् किञ्चिद्विशेषो यः प्रवेशे नवसद्मनः ॥ वक्ष्यमाणबिधानेन विज्ञेयः शुभ मिच्छता ॥४९॥ अथ मासविचारः माघफाल्गुनवैशाखज्यैष्ठमासेषु गोमनः ॥ प्रवेशो मध्यमो ज्ञेयो मार्गकार्तिकमासयोः ॥ ५० ॥ श्रावणेपि च के चित्तु प्रवदन्ति मनीषिणः ॥ सप्तम्यादिसकाराणां सेप्तानां कारणे न च ॥ ५१ 3 अथतिथिविचार है अमावास्या च षष्ठी च रिक्ता शुक्लस्य पैक्षतिः। अष्टमी संमुखः शुक्रो वर्जनीयाः प्रवेशके ॥५२॥ अथ नक्षत्रविचारः * कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात् ।। यद्दिश्यं यच्च नक्षत्रं १ फल । २ श्रावणशुक्लसप्तमीशनिशतभिषाशुभयोगसिंहलग्नानाम् ।। ३ पक्षमूलं, प्रतिपत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com