SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २८ विदग्धमुखमण्डनकाव्यम् । खंजनाः॥ खं आकाशम् । आकाशस्य सर्वत्र वर्तमानत्वादन्तो नास्ति । हे खंज हे खोड । खंजनाः मध्यदेशे पोदनो नाम पक्षि विशेषः खंजन उच्यते । अत्र स्वेकैकाक्षरवृद्ध्या उत्तरत्रयं कृतम् ॥ उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति संबोधय मारुताशनम् । वदन्ति कं पत्तनसंभवं जनाः फलं च किं गोपवधूकुचोपमम्॥३१॥ नागरंगं ॥ ना पुमान् । हे नाग हे सर्प । नागर नगरे भवो नागरस्तम् । नागरंग नारंगीफलम् । अत्रैकैकाक्षरवृद्ध्या प्रश्नोत्तराणि द्रष्टव्यानि ॥ प्रायेण नीचलोकस्य कः करोतीह गर्वताम् । आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः ॥ ३२ ।। शबराः॥राः द्रव्यम् । शबराः भिल्लाः । इति पश्चादक्षरप्रदानेनोत्तरं दर्शितम् ॥ सानुजः काननं गत्वा कीकसेयाजघान कः । मध्ये वर्णत्रयं दत्वा रावणः कीदृशो वद ॥ ३३ ॥ राक्षसोत्तमः॥ रामः दाशरथिः। एतस्य एवोत्तरस्य राकारमकारयोर्मध्ये त्री. ण्यक्षराणि क्षसोत्त इति लिखित्वा वाच्यम् । राक्षसोत्तम इति स्यात् । राक्षसानां मध्ये उत्तमः श्रेष्ठः । इत्येवं मध्ये वर्णप्रदानेन वर्धमानं दर्शितम् ॥ धत्ते वियोगिनीगण्डस्थलपाण्डुफलानि का। वद वौँ विधायान्ते सीता हृष्टा भवेत्कया ॥ ३४ ॥ लवलीलया ॥ लवली लताविशेषः । अस्यैवोत्तरस्यान्ते वर्णों द्वौ लया इति कृत्वा वाच्यम् । लवलीलया लवो नाम पुत्रस्तस्य लीला क्रीडा तया । इत्येवमन्ते वर्णप्रदानेन वर्धमानं दर्शितम् ॥ विष्णोः का वल्लभा देवी लोकत्रितयपाविनी ।। वर्णावाद्यन्तयोर्दत्वा कः शब्दस्तुल्यवाचकः ॥ ३५ ॥ समानः ॥ मा लक्ष्मीः। एतस्यैवादौ सकारोऽन्ते नकारश्च एतौ वर्णों दत्वा वाच्यम् । समानः तुल्यः। इत्येवमादावन्ते च वर्णप्रदानेन वर्धमानं दर्शितम् ॥ इति वर्धमानाक्षरजातिः । आदितो मध्यतोऽन्ताद्वा हीयन्ते वर्णजातयः । एकद्वित्र्यादयो यत्र हीयमानाक्षरं हि तत् ।। ३६ ॥ हीयमानानि अक्षराणि यस्मिन् तत् हीयमानाक्षरं प्रश्नोत्तरम् ॥ वसन्तमासाद्य वनेषु राजते विकाशि किं वल्लभ पुष्पमुच्यताम् । विहंगमं कं च परिस्फुटाक्षरं वदन्ति कं पङ्कजसंभवं विदुः॥३७॥ किंशुकं ॥ किंशुकः पलाशः । खाखरो। किंशुके भवं किंशुकम् । केसूडफूल । अत्र तदेव आदिमवर्णपरिहारेण वाच्यम् । शुकं कीरं । शुकपक्षी शुद्धं वदिति । अ. त्रापि द्वितीयस्यापि वर्णस्य त्यागेन वाच्यम् । कं ब्रह्माणम् । विष्णोर्नाभिकमले ब्रह्मा जातः । कशब्दो ब्रह्मवाचकः प्रसिद्धः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy