________________ तृतीयः परिच्छेदः / असुरसुरनरेन्द्ररुह्यते का शिरोभि. स्तनुरपि शुचिवस्त्रे कातिविस्तारमेति / वदति कमलयोनिः सेव्यते केन पुष्पं ___मधुरमसृणमृद्वी का भवेदुत्पलस्य // 26 // मालिका // माला एव मालिका / पुष्पादिमाला देवानां शिरसि शाश्वती भव. त्येव / तदेव प्रतिलोमं वाच्यम् / कालिमा श्यामता। उज्जवले वस्त्रे मषीबिन्दुरूपापि बहुविस्तारं प्राप्नुयादिति भावः / कालिना। हे क हे ब्रह्मन् / अलिना भ्रमरेण / तदेव प्रतिलोमं वाच्यम् नालिका / नाली एव नालिका नालं। इदं च प्रश्नचतुष्टयं मन्थानाकृत्या लिखिला वाचनीयम् / तथा कृते मध्यस्थो लिकारश्वतुरो वारान् वाच्यते // हिमांशुखण्डं कुटिलोज्वलप्रभं __ भवेद्वराहप्रवरस्य कीदृशम् / विहाय वर्ण पदमध्यसंस्थितं ___ न किं करोत्येव जिनः करोति किम् // 27 // दंष्ट्राभं // दंष्ट्रा दाढा दंष्ट्रावत् आभा शोभा यस्य तत् / अथवा दंष्ट्रा इव भाति दीप्यते तत् / द्वितीयायामुदयं प्राप्तश्चन्द्रो वक्रोज्वलगुणेन सूकरदंष्ट्रया सहोपमी. यते। दंष्ट्राभमित्यत्र मध्यस्थः ष्ट्रा इति वर्णस्त्यज्यते / पश्चादतप्रत्यागतरीत्या वाच्यम् / तच्च दम्भनिति स्यात् / जिनो दम्भं कपटं न करोति / विपरीतवाचनया भंदमिति स्यात् / जिनो भन्दं कल्याणं करोति / 'भदि कल्याणे' / एवं मध्यस्थितवर्णलोपेन गतप्रत्यागतं दर्शितम् // वसन्तमासाद्य वनेषु कीदृशाः पिकेन राजन्ति रसालभूरुहाः। निरस्य वर्णद्वयमत्र मध्यमं तव द्विषां कान्ततमा तिथिश्च का // 28 // कांतगिरा // कान्ता मनोहरा गीर्वाणी यस्यासौ कान्तगीः तेन कान्तगिरा / अनोत्तरमध्यादनुखारः / अयं हि मन्थानाकृतिचित्रवन्धः / मन्थानं 'रवाइ-फूल' इति भाषा तस्य कृतिराकारः तद्वचित्रबन्धः / तकारगिकाररूपं वर्णद्वयं त्यक्ता वाच्यम् / कारा बन्दिगृहम् / वामवाचनया राका / 'राका पूर्णे निशाकरे' / पूर्णे मासे जातत्वाद्राका पूर्णमासी / अनेकप्रकारकं दर्शितम् // इति गतप्रत्यागतजातिः। आदौ मध्ये तथान्ते वा वर्धन्ते वर्णजातयः / एकद्वित्रादयो यत्र वर्धमानाक्षरं हि तत् // 29 // वर्धमानानि अक्षराणि यस्मिन् तत् वर्धमानाक्षरं प्रश्नोत्तरम् // किमनन्ततया ख्यातं पादेन व्यङ्गमाह्वय / जनानां लोचनानन्दं के तन्वन्ति धनात्यये // 30 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com