SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पा० निमित्ताकर्मयोगे (वा. १४९०) निमित्तमिह फलम् । योगः संयोगसमवायात्मकः । चर्मणि द्वीपिनं इत्यादि। ५७ साधुनिपुणेनायाम् ॥ १॥३।१७३ ॥ साधु निपुण इत्येताभ्यां युक्ते अर्चायां गम्यमानायां ड्योस्सुपो भवन्ति । साधुर्देवदत्तो मातरि । निपुणो जिनदत्तः पितरि । अन्यत्रसाधुः भृत्यो राज्ञः । तत्त्वाख्याने न भवति । है. साधुना ॥ २॥२॥१०२ ॥ निपुणेन चार्चायाम् ॥ २।२।१०३ ॥ निपुण साधु शब्दाभ्यां युक्तादप्रत्यादौ सप्तमी स्यात् , अर्चायाम् । मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? निपुणो मैत्रो मातुः। मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव ? निपुणो मैत्रो मातरं प्रति परि अनु अभि वा । पा० साधुनिपुणाभ्यामर्चायां सप्तम्पप्रतेः ॥ २२४३ ॥ सि. को० नं. ६४.। आभ्यां योगे सप्तमी स्यादर्चायाम्, न तु प्रतेः योगे। मातरि साधुनिपुणो वा। अर्चायाम् किम् ? निपुणो राज्ञो भृत्यः। इह तत्त्वकथने तात्पर्यम् । 'अप्रत्यादिभिरिति वक्तव्यम्' (वा० १४९३) । साधुनिपुणो वा मातरं प्रति परि अनु वा। ५८ स्वेशेऽधिना ॥ १७ ॥ अधीत्यनेन योगे स्वे ईशितव्ये ईशे ईशितरि स्वामिनि चार्थे वर्तमानाद ड्योस्सुपो भवन्ति । स्वे-अधिमगधेषुश्रेणिकः । अध्यवन्तिषु प्रद्योतः । ईशे-अधिश्रेणिके मगधाः । अधिप्रद्योतेऽवन्तयः । है। स्वेशेऽधिना ॥ २॥२।१०४ ॥ स्वे ईशितव्ये ईशे च वर्तमानादधिना युक्तात् सप्तमी स्यात् । अधिमगधेषु श्रेणिकः, अधिश्रेणिके मगधाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034656
Book TitleVibhakti Samvad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherLala Sitaram Jain
Publication Year1941
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy