________________
परिशिष्ट कृष्णः । 'गुणकर्मणि वेष्यते' (वा० ५.४२ ) नेता अश्वस्य सुनस्य सुघ्नं वा। कृति किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।
५५ भाधारे ॥ १॥३।१०६ ॥
क्रियाश्रयस्य कर्तुः कर्मणो वा यः आधारः अधिकरणं तस्मिन् ड्योस्सुपो भवन्ति । आसने आस्ते । स्थाल्यां पचति । गङ्गायां घोषः। तिलेषु तैलम् । आकाशे शकुनयः । कृष्णा गोषु सम्पन्नक्षीरतमा, कृष्णा गवां सम्पन्नक्षीरतमा इति समुदायस्यैकदेशं प्रत्याधारभावविषयविवक्षायां सप्तमी । सम्बन्धविवक्षायां तु षष्ठी। यथा वृक्षे शाखा वृक्षस्य शाखा इति निर्धारणन्तु कृष्णेत्यादेः पदान्तरात्।
है• सप्तम्यधिकरणे ॥ २१६९५ ॥
अधिकरणे एक-द्वि-बहौ यथासंख्यं ज्योस्सुप्पा सप्तमी स्यात् । कटे आस्ते, दिवि देवाः, तिलेषु तैलम् ।
पा. माधारोऽधिकरणम् ॥ ॥॥ सि. को.नं. १५२। कर्तृर्मद्वारा तनिष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् । सप्तम्यधिकरणे च ॥ २॥३॥३६ ॥ सि. को० नं० ६३३ ।
अधिकरणे सप्तमी स्यात्, चकारादूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते, स्थाल्यां पचति, मोक्षे इच्छास्ति, सर्वस्मिन्नात्मास्ति वनस्य दूरे अन्तिके वा ।
५५ हेती कर्मणा ॥ १॥३॥१७२ ।। कर्मणा युक्त हेतौ वर्तमानाद् ङ्योस्सुपो भवन्ति । तृतीयापवादः ।
चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुंजरम् ।
बालेषु चमरौं हन्ति सीम्नि पुष्कलको हतः ॥ है. तद्युक्ते हेतौ ॥ २२२।१०० ॥
तेन व्याप्येन युक्त हेतौ वर्तमानात् सप्तमी स्यात् । चर्मणि दीपिनं इत्यादि। तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com