SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सप्तमी विभक्ति ( आधार ) सुच् " प्रत्ययार्थक शब्दों से युक्त आधार-स्वरूप काल में भी सप्तमी विभक्ति का प्रवेश विकल्प से माना जाता है । कुशल" और आयुक्त से युक्त आधार में भी सप्तमी विभक्ति का प्रयोग होता है, यदि आसेवा गम्यमान हो । स्वामी", ईश्वर, अधिपति, दायाद, साक्षी, प्रतिभू और प्रसूत शब्दों से युक्त अप्रधान में भी विकल्प से सप्तमी विभक्ति का प्रयोग किया जाता है । भवन्ति । उपखार्यां द्रोणः । उपनिष्के कार्षापणम् । द्रोणकार्षापणाभ्यामधिकौ खारीनिष्कावित्यर्थः । ६० सुजः काले वा ॥ १।३।१७७ ।। सुचोऽर्थो येषां प्रत्ययानां तदन्तैर्युक्ते काले आधारे ब्योस्सुपो भवन्ति । द्विह्नि भुङ्क्ते । द्विरह्नो भुङ्क्ते, मासे पञ्चकृत्वो भुङ्क्ते, मासस्य पञ्चकृत्वो भुङ्क्ते । बहुधाह्नि भुङ्क्ते, बहुधाहो भुङ्क्ते । आधार इति किम् ? द्विरहो भुङ्क्ते । काल इति किम् ? द्विरध्वनि भुङ्क्ते । ६१ कुशलायुक्तेनासेवायाम् ॥ १।३।१७८ ॥ कुशल आयुक्त इत्येताभ्यां युक्ते आधारे आसेवायां तात्पर्ये गम्यमाने ड्योस्सुपो वा भवन्ति । कुशलो विद्याग्रहणे, कुशलो विद्याग्रहणस्य । आयुक्त - स्तपश्चरणे, आयुक्तस्तपश्चरणस्य । अन्यत्र कुशलश्चित्रकर्मणि, न च करोति । आयुक्तो गौः शकटे - आकृष्य युक्तः इत्यर्थः । ६२ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रस्तैश्च ॥ १३ ॥ १७९ ॥ स्वाम्यादिभिर्युक्तेऽप्रधाने वा ङ्योस्सुपो भवन्ति । गोषु स्वामी, गव स्वामी । गोष्वीश्वरः, गवामीश्वरः । गोषु दायादः, गवां दायादः । गोषु साक्षी, गवां साक्षी । गोषु प्रतिभूः, गवां प्रतिभूः । गोषु प्रसूतः, गवां प्रसूतः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034656
Book TitleVibhakti Samvad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherLala Sitaram Jain
Publication Year1941
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy