________________
ध्यायः ११.] संस्कृतटीका-भाषाटीकासमेतः।
(१७९) होनेपर सो चन्द्रमासे वियोगकरे । ऊपर कहा हुआ फल सूर्यगतिसे- भागकरके जो होगा तिसको चन्दमाकी नाई सूर्यमें संस्कार करे सूर्यको रीतिके अनुसार पातस्पष्ट में विपरीतकपसे संस्कार करे । इस प्रकार संस्कार क्रान्तिको समता न होनेतक. मसकृत् साधन करे ॥ ९॥ १०॥ ११ ॥
अथ क्रान्तिसाम्यं पात इति स्पष्टं कथयस्तत्कालज्ञानार्थ साधितक्रान्तिसाम्यसम्बन्धिचन्द्रासन्नार्धरात्रात्पातकालस्य गतगम्यत्वमाह
क्रान्त्योः समतो पातोऽथ प्रक्षिप्तांशोनिते विधौ ॥
हीनेऽर्धरात्रिकाबातो भावी तत्कालिकेऽधिके ।। १२ ॥ सूर्यचन्द्रयोः स्पष्टकान्त्योः साम्ये स्पष्टः पातः स्यात् । अथानन्तरम् । स्पष्टपातसम्बन्धी साधितचन्द्रः पूर्गनुसन्धानेनापाततो यद्दिनीयो भवति तदासन्नार्धरात्रकाल स्पष्टचन्द्रो मध्यस्पष्टाधिकरोक्तप्रकारेण साध्यः। तस्मादर्धरात्रकालिकाचन्द्रासंक्षिप्तांशोनिते क्रान्तिचापान्तरेण तदर्धेन वा युतोनिते चन्द्रे स्पष्टक्रान्तिसाम्यसम्बसाधितचन्द्रे न्यूने सति तदर्धरात्रकालात्पातकालो गतः। तात्कालिके क्रांतिसाम्यकालिकसाधितचन्द्रेऽर्धरात्रकालिकचन्द्रादधिके सति तदर्धरात्रकालापातकाल एष्य इत्यर्थः। अत्रोपपत्तिः । यद्याप स्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रमध्यक्रांतिसाम्यकालिकचन्द्राभ्यां वक्ष्यमाणप्रकारेण पातकालस्य मध्यक्रांतिसाम्यकालाद्गतैष्यघट्यादिज्ञानं भवतीति निकटार्धरात्रिकचन्द्रात्सत्साधनं पुनस्तद्गतैष्यकथनं च गौरवम् । आर्धरात्रिकस्पष्टचन्द्रसाधनाक्रयाधिक्यात् । तथापि चन्द्रगतरतिमहत्त्वेन प्रतिक्षणं गतेबैद्वन्तरेणान्यादृशत्वादहुकालान्तरे बहुकालान्तरितस्पष्टगत्यानीतधथ्यात्मकस्यातिस्थूलत्वादासनकाले स्वल्पान्तराच्चासन्नार्धरात्रिकः स्पष्टचन्द्रो ग्रंथोक्तः स स्पष्टगतिकोऽवश्यमपक्षितः । अतस्तस्माचन्द्रात्स्पष्टक्रांतिसाम्यप्तस्बद्धचन्द्रस्य न्यूनाधिकवे क्रमेण तदर्धरात्रात्सष्टपातो गतैष्य इति सम्यगुक्तम् । अतएव “ समीपतिथ्यन्तसमीपचालन विधोस्तु तत्कालजयैव युज्यत" इति भास्कराचार्योक्तं संगच्छते ॥ १२ ॥
भा० टी०-सूर्य और चन्द्रमाके क्रांतियोंकी समताही पात है प्रक्षिप्तांश संस्कृत चन्द्र भध्यरात्रिक चन्द्रप्स हीन होनेपर मध्यरात्र में पातगत और तिस कालका चन्द्रमा अधिक होनेसे पातमावी होता है ॥ १२ ॥ अथ स्पष्टपातकालज्ञानमाहस्थिरीकृताधरात्रेन्द्रोयोविवरलिप्तिकाः॥
षष्टिनाश्चन्द्रभुत्याप्ताः पातकालस्य नाडिकाः ॥ १३ ॥ स्थिरीकृतार्धरात्रेन्दोः स्पष्टक्रांतिसाम्यसम्बद्धसाधिता सकृत्क्रिया नियतचन्द्रस्तदासन्नाधरात्रिकस्पष्टचन्द्रः। तयोरुभयोः। अत्र द्वयोरिति पूर्वपदार्थव्यक्तीकरणाय ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com