________________
( १७०) सूय्यसिद्धान्तः
[ दशमोऽकोटिकर्णयुताद्विन्दोबिम्ब तात्कालिकं लिखेत् ॥ कर्णसूत्रण दिसिद्धिं प्रथमं परिकल्पयेत् ॥ १३ ॥ शुक्ले कर्णेन तादम्बयोगादन्तर्मुखं नयेत् ॥ शुक्लाग्रयाम्योत्तरयामध्ये मत्स्यौ प्रसाधयेत् ॥ १२॥ तन्मध्यसूत्रसंयोगाद्विन्दुत्रिस्पृग्लिखेद्धनुः ॥
प्राग्निम्बं याहगेव स्यात्ताहक्तत्र दिने शशी ॥ १३ ॥ समभूमावभीष्टस्थाने दिक्साधनं कृत्वा पूर्वापरा दक्षिणोत्तरा च रेखा कार्याः । तत्र दिक्सम्पातेऽर्कसज्ञितमर्कसञ्ज्ञा सञ्जाता यस्येत्येतादृशमर्कसझं बिन्दु चिह्नं दत्त्वा कृत्वेत्यर्थः । ततो बिन्दोः सकाशाद्ध पूर्वसाधितं स्वादेङ्मुखं स्वदिशा दक्षिणोत्तग़न्यतरातदभिमुखं दत्त्वा भुजांगुलानि गणयित्वा चिह्नं कृत्वा ततो भुजाग्रचिह्नात्पश्चान्मुखी पश्चिमदिक्समसूत्राभिमुखाग्रां कोटि द्वादशांगुलात्मिकां दत्त्वा कर्ण पूर्वसाधितं कोट्यामध्यगकोट्यग्रचित्रं मध्यं सूर्यसचिह्न तयोर्गतं स्पृष्टम् । तदन्तगले कर्णागुलानि दत्त्वेत्यर्थः । कोटिकर्णरेखासंयोग मध्यं प्रकल्प्य तात्कालिकं सूर्यास्तोदयकालिकं चन्द्रस्य साधितं मण्डलं लिखेत् । तत्र लिखितचन्द्रोवम्बे कर्णसूत्रेण कर्णरेखया प्रथममादौ दिक्सिद्धिं दिशानिष्पत्तिं परिकल्पयेत् कुर्यात् । चन्द्रमण्डलं कर्णरेखायां यत्र लग्नं वत्र चन्द्रवृत्ते पूर्वा । कर्णरेखां स्वमार्गेणाग्रे निःसार्य चन्द्रवृत्तपरिधौ यत्र कर्णरेखापरमागे लग्ना तत्र पश्चिमा। तन्मास्याभ्यां रेखा दक्षिणोत्तरा चन्द्रवृत्ते यत्र लग्ना तत्र दक्षिणोत्तरोत फलितार्थः । शुक्ल पूर्वसाधितं कर्णेन कर्णरेखामार्गेण तद्विम्बयोगात्कर्णरेख चन्द्रमण्डलपरिध्योः सम्पातादपूर्वात् । अन्तर्मुखं चन्द्रवृत्तकेन्द्राभिमु नयेत् शुक्लाग्रचिह्नं कुर्यात् । चन्द्रवृत्तान्तः कर्णरखायां पश्चिमचिह्नाच्छुक्लांगुलानि गणयित्वा कुर्यदित्यर्थः । शुक्लाग्रयाम्योत्तरयोश्चन्द्रवृत्तान्तर्यत्र शुक्लाग्रीचनं यत्र च चन्द्रवृत्तपरिधी दक्षिणोत्तरयोश्चिद्रं त्योरित्यर्थः । मध्येऽन्तराले मत्स्यौ प्रत्येकं साधयेत् । शुक्लाग्रदक्षिणचिह्नाभ्यां मत्स्यशुक्लायोत्तचिह्नाम्यां मत्स्यश्चेति पूर्णोक्तरीत्या मत्स्यौ कुर्यादित्यर्थः । तन्मध्यसूत्रसंयोगात् । तयोर्मत्स्ययामध्यसूत्रं मुखपुच्छस्पृग्गर्भसूत्रं प्रत्येकं तयोर्यत्र च. न्द्रमण्डलान्तस्तद्वहिर्वा कद्रशुक्लाग्रस्य पश्चिमत्वे पूर्वभागे संयोगः । पूर्वत्वे पश्चिमभागे संयोगः । स्वस्वमार्गेण प्रसारितयोस्तयोः सम्पातस्तस्मात्स्थानात् । बिन्दुत्रिस्पृक् शुक्लायविन्दुर्याम्योत्तरयोश्चिह्नवि दुरिति विन्दुत्रितयस्पर्शिधनुर्वृत्तैकदेशात्मकं लिखेत् । मुत्रसम्पातशुक्लाबन्दन्तरालांगुलव्यासाधेन सम्पातस्थानाद्धिन्दुत्रयस्पष्टवृत्तपरिध्येव देशात्मक. चन्द्रमण्डल.न्तश्चापं कुर्यादित्यर्थः । प्राक्पूर्वकाले लिखितं चन्द्रबिम्बम् । याक् । लिखितचापच्छदेन यादृशं पश्चिमभागे भवति तादृशः। एवकारस्तदि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com