________________
संस्कृतटीका - भाषाटीकासमेतः ।
सूर्यास्तका लिको पश्चात्प्राच्यामुदयकालिकौ ॥ दिवाचार्क हौ कुर्यादृक्कर्माथि ग्रहस्य तु ॥ ९ ॥
पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिने आसने सूर्यग्रहो सूर्यास्तकालिकौ कुर्याद्रणकः । पूर्वास्तोदयसाधने सूर्योदयकालिकौ कुर्यात् । दिनेऽभीष्टकाले कुर्यात् । चकारो विकल्पार्थकः । अनन्तरं ग्रहस्य दृक्कर्म । आयनाक्षटकर्म दयं कुर्यात् । तुकार आक्षदृक्कर्मश्लोक पूर्वार्धोक्तमिति विशेषार्थकः । यत्रोपपत्तिः । पश्चादस्तोदय साधने पश्चि मायां तद्दर्शनमिति सूर्यास्तकालिकौ सूर्यग्रहाविष्टकालांशसाधनार्थ सूक्ष्मौ । पूर्वोदयास्तसाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौ । सूर्यग्रहाविष्टकालांश साधनार्थं सूक्ष्मावन्यकाले तु किञ्चित्स्थूलावपि कृतौ दृकर्मसंस्कृतग्रहस्य सूर्यवत् क्षितिजसंलग्नतायोग्यत्वाद्यकर्म संस्कृतो ग्रहः कार्य इति ॥ ४ ॥
ध्यायः ९. ]
Ga
(१५७)
मा०टा० - पश्चिम में होने से सूर्यास्तकालका और पूर्व में होनेसे सूर्योदयकालका ग्रह और सूर्य स्पष्ट निर्णय करना चाहिये । तदुपरान्त ग्रहका टक्कर्म साधन करे ॥ ४ ॥
अथेष्टकालांशानयनमाह
ततो लग्नान्तरप्राणाः काठांशाः षष्टिभाजिताः ॥ ·
प्रतीच्यां षड्भयुतयोस्तद्वलग्नान्तरासवः ॥ ५ ॥ .
ततस्ताभ्यां सूर्यग्रहाभ्यां लग्नान्तरप्राणाः भोग्यासूनूनकस्याथेत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाः कालांशा भवन्ति । प्रागुदयास्तसाधने प्रतीच्यां पश्चिमो दयास्तसाधने षड्भयुतयोः षड्राशियुतयोः सूर्यदृग्ग्रहयोर्लग्नान्तरासवः । अन्तरासवस्तद्वत् षष्टिभक्ता इष्टकालांशा भवन्तीत्यर्थः । अत्रोपपत्तिः । दृग्ग्रह सूर्याभ्यामन्तरंकालो ग्रहत्य सूर्योदयकाले दिनगतं पूर्वोदयास्तनिमित्तमुपयुक्तम् । एवं पश्चिमोदयास्तनिमित्तं सूर्यदृग्ग्रहाभ्यामस्तकाला सुंभिरन्तर कालः सूर्यास्तकाले ग्रहस्य दिनशेषकाल उपयुक्तः तत्रास्तकालानामनुक्तेरुदयासुभिः साधनार्थ सषड्भौ सूर्यग्रहौ कृतो स कालोsस्वात्मकः। अहोरात्रासुभिश्चक्रकलातुल्यैश्चक्रांशा लभ्यन्ते तदेष्टासुभिः कइत्यनुपाते प्रमाफलयोः फलापवर्तनेन हरस्थाने षष्टिः । अतोऽस्वात्मकान्तरकालः षष्टिभक्त इष्टकालांशा इत्युपपन्नमुक्तम् । अत्रेदमवधेषम् । सूर्योदयकालिकाभ्यामर्कटग्ग्रहाभ्यामानीतेन दिनगतेन पूर्व चाल्यो दृरग्रहः । सूर्यास्त कालिकाभ्यां सपड्भाभ्यामर्कटरग्रहाभ्यामानीतेन दिनशेषेणाग्रे चाल्यः सपड़भो दृग्रहः । क्रमेण ग्रहोदयास्तकाले प्रारूपश्चिमदृग्ग्रहै। भवतः । ताभ्यां सूर्यसषड्भसूर्याभ्यां च क्रमेण पूर्वरीत्यान्तरकालो ग्रहस्य सूर्योदयास्तका क्रमेण दिनगतशेषौ नाक्षत्रों षष्टिभक्तौ कालांशाविष्टो सूक्ष्मौ अथेष्टका
१ द्वयोर्लमान्तरप्राणाः इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com