________________
घ्यायः १) संस्कृतटीका-भाषाटीकासमेतः ।
भा० टी० -पहले भास्कर ( सूर्य ) ने जो कहाथा वही आदि शस्त्र है, वे वल युग बदबनेके हेतु करके कालभेद हुमा है, सोही इस समय कहताहूं ॥ ९ ॥ अथ कालभेदं इत्यनेनोपस्थितं कालं प्रथमं निरूपयि घुस्तावत्कालं विभजते
लोकानामंतकृत्कालः कालोऽन्यः कलनात्मकः॥
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्वामूर्त उच्यते ॥ १० ॥ कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रान्तरप्रमाणसिद्धः । लोकानां जीवानामुपलक्षणादचेतनानामपि अन्तकृविनाशकः । यद्यपि कालस्तेषामुत्पत्तिस्थितिकारकस्तथापि विनाशस्यानन्तत्वात्कालत्वप्रतिपादनाय चान्तकृादत्युक्तम् । अन्तकृदित्यनेनैवोत्पत्तिस्थितिकृदित्युक्तमन्यथा नाशासम्भवात् । अतएव “कालः सृजत्ति भूतानि कालः संहरति प्रजाः" इत्यायुक्तं ग्रन्थान्तरे । अन्यो द्वितीयः कालः खण्डकालः। कलनात्मको ज्ञानविषयस्वरूपः । ज्ञातुं शक्य इत्यर्थः । स द्वितीयः कलनात्मकः कालोऽपि द्विधा भेदद्वयात्मकः । तदाह-स्थूलसूक्ष्मत्वादिति । महत्त्वाणुत्वाभ्याम् . मूर्तः इयत्तावच्छिन्नपरिमाणः । अमूर्तस्तद्भिन्नः कालतत्त्वविद्भिः कथ्यते । चकारो हेतुक्रमेण मूर्तीमूर्त्तकमार्थकः । तेन महान्मूतः कालोऽणुरमूर्तः काल इत्यर्थः ॥ १० ॥
मा० टी०-एक काल लोकोंका अन्तकारी अर्थात् अनादि है। दूसरा काल कलनात्मक अर्थात् ज्ञानयोग्य है। खण्डकाळ रथूल व सूक्ष्मके भेदसे मूर्त मौर ममूर्त है ॥ १० ॥
अथोक्तभेदद्वयं स्वरूपेण प्रदर्शयन्प्रथमभेदं प्रतिपिपादयिषुस्तदवान्तरभेदेषु भेददयमाह
प्राणादिः कथितो मूर्तरुयुट्यायोऽमूर्तसंज्ञकः ॥ षभिः प्राणविनाडी स्यात्तत्षष्ट्या नाडिका स्मृता ॥ ११॥ . प्राणः स्वस्थसुखासीनस्य श्वासोच्छ्वासान्तवर्ती कालो दशगुर्वक्षरोचार्यमाण आदियस्यैतादृशः प्राणानन्तर्गतो मूर्तः काल उक्तः । त्रुटिराया यस्यैतादृशः काल एकमाणा न्तर्गतत्रुटितत्परादिकोऽमृतसंज्ञः । अथामूर्तस्य मूर्त्तादिभूतस्य व्यवहारायोग्यत्वेन प्रधानतयानन्तरेद्दिष्टस्य भेदप्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधानतया प्रथमोद्दिष्टभेदान्विवक्षुः प्रथमं पलघट्यावाह-षभिरिति । षट्प्रमाणैरसुभिः पानीथपलं भवति पलानां षट्या घटिकोक्ता कालतत्त्वज्ञैः ॥११॥
मा० टी०-प्राणादि मूर्त्तकाल है, वृध्यादिकी अमूर्त संज्ञा है। ६ प्राएकी एक विनारी (पळ) और ६० पळकी एक नाडी ( दण्ड) होती है ॥ ११ ॥ अथ दिनमासावाह
नाडीषष्टया तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ॥
तात्रंशता भवेन्मासः सावनोऽकोदयस्तथा ॥ १२॥ १ उच्यत इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com