SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ (१४४) सूर्यासिद्धान्त: [सप्तमोऽशात पष्टिकलात्मकैकभागादूनेऽनधिके सत्यपसव्यसंज्ञं युद्धं भवति । अत्र विशेषमाहएक इंति । अत्रापसव्ययुद्ध एको द्वयोरन्यतरोऽणुरणुबिम्बश्चेत्स्यात्तदाऽपसव्यं युद्ध व्यक्तं स्यादन्यथा त्वव्यक्तं युद्धं स्यात् । एषां चतुणी फलम् । “अपसव्ये विग्रहं यात्संग्रामं रश्मिसंकुले । लेखनेऽमात्यपीडा स्याद्भेदने तु धनक्षयः ॥” इति भार्गवीयोक्तं ज्ञेयस् । युद्धभेदानुक्त्वा समागममाह-समागम इति । द्वयोर्याम्योत्तरान्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगो भवति । अत्रापि विशेषमाह । भवत इति । यतिविषयको ग्रहो बलान्वितौ बलेन । “स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता ॥ प्रश्नत्रयेऽथवाप्यस्मिन् स्थौल्यसौम्यबले स्मृतम् ॥” इति ब्रह्मसिद्धान्तवचनात् । स्थूलमण्डलतयान्वितौ युक्तौ स्थूलबिम्बौ समावित्यर्थः ।चेत्स्तस्तदा समागमस्तयोर्व्यक्तः स्यात् । अन्यथा त्वव्यक्तः समागमः "दावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः । अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षनौ ॥ युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः । भुवि भूभृतामाप तथा फलमव्यक्तं विनिर्दिप्रम ॥” इत्युक्तेः । “भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः । ततो योगो भवेदेषामेकांशकसमापनात् ॥” इति काश्यपोक्तेश्च सर्व निरवद्यम् ॥ १८ ॥ १९ ॥ भाटी-ताराओंके परस्पर स्पर्शको उल्लेख कहते हैं, विम्बभेद होजाय तो भेद युद्ध कहते हैं। परस्परकी किरण मिल जानेसे मंशुविमर्द नाम होता है। एक अंशका अनधिक पार्थक्य हो तो अपसव्य युद्ध होताहै, तिनमें एकतारा छोटा हो तो प्रकाश युद्ध होता है, ऐसा नहो अर्थात् दोनों एकसे हों तो अप्रकाश युद्ध होताहै । एकांशमें अधिक पृथक्ता होनेसे दोनों ग्रहोंके बलवान् होनेपर समागम कहा जाता है ॥ १८ ॥ १९ ॥ अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह अपसव्ये जितो युद्धो पिहितोऽणुरदीप्तिमान् ॥ रुक्षो विवर्णो विध्वस्तो विजितो दाक्षिणाश्रितः ॥२०॥ द्वयोमध्ये यस्तदितरण विध्वस्तो हतः स विजितः पराजितो ज्ञेयः । हतस्य लक्षएमाह-अपसव्य इति । अपसव्ये युद्धे योऽजितो जयलक्षणविवर्जितः । एतेनोलखा दिवये संज्ञाफलं न पराजितस्य फलमिति सूचितम् । पिहित आच्छादितोऽव्यक्त इति यावत् । अणुरितरग्रहबिम्बादल्पविम्बः । अदीप्तिमान् प्रभारहितः । सोऽस्निग्धः । विवर्णः वर्णन स्ववर्णन स्वाभाविकेन रहित इत्यर्थः । दक्षिणाश्रित इतरग्रहापेक्षया दक्षिणदिशि स्थितः । “श्यामो वा व्यपगतरश्मिमंण्डलो वा रुसो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हा इति स हो ग्रहण ॥” इति भार्गवीयक्तेः ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy