________________
(१३२) सूर्यसिद्धान्त:
[ षष्टोऽ-- एक वर्षतक भली भांतिसे जिसकी परीक्षा ली है, उस शिष्यकोही केवल यह बताना चाहिये ॥ २४ ॥
अथाग्रिमग्रन्थस्यासंगतित्वनिरासार्थमधिकारसमाप्तिं फक्कियाह-ग्रहणभेदज्ञापकपरिलेखप्रतिपादनं परिपूर्तिमाप्तमित्यर्थः । इदं दशभेदग्रहगणितमित्युक्त्या गणितक्रिया भावाद्रहणाधिकारान्तर्गतं नाऽधिकारान्तरम् । अत एवाधिकार इत्युपेक्षाध्याय इत्युक्तम् ॥ रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे ॥ छेद्यकं ग्रहणान्तं तु पूर्ण गृढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थ-- प्रकाशके छेदकाध्यायः सम्पूर्णः ॥
इतिच्छेदकाध्यायः॥
छठवाँ अध्याय समाप्त ।
अथ सप्तमोऽध्यायः। अथ युत्याभासग्रहणनिरूपणेन संस्मृततयारब्धो ग्रहयुत्यधिकारो व्याख्यायते । तत्र युतिभेदानाह
ताराग्रहाणामन्योन्यं स्याता युद्धसमागमौ ॥
समागमः शशांकन सूर्यणास्तमनं सह ॥ १॥ ताराग्रहाणां भौमादिपञ्चग्रहाणां परस्परं योगे युद्धसमागमौ वक्ष्यमाणलक्षणभिन्नौ स्तः । चंद्रेण सह पञ्चतारान्यतमस्य योगः समागमसंज्ञः । सूर्येण सह पंचताराणामन्यतमस्य चंद्रस्य वा योगस्तदस्तमनं पूर्णास्तंगतत्वम् । न त्वस्तमात्रम् । युत्यभावे प्रागपरकाले तस्य सत्त्वात् ॥ १॥
भा० टी०-ग्रहोंके परस्पर योगका नाम युद्ध या समागन हैं । चंद्रमाके सहित ग्रहों के योगका नाम समागम है । सूर्य के साथ योगका नाम मस्तमन है ॥ १ ॥ अथ युतेर्गतैष्यत्वं सार्धश्लोकेनाह--
शीघ्र मन्दाधिकेऽतीतः संयोगो भविता यथा ॥ द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ॥
प्राग्यायिन्यधिकेत्तीतो वक्रिण्येष्यः समागमः ॥२॥ ययोर्ग्रहयोर्योगोऽभिमतस्तयोर्गहयोर्मध्ये यः शीघ्रगतिम्रहस्तस्मिन्मन्दाधिके मन्दगतिग्रहादधिके सति तयोः संयोगो युतिसंज्ञो गतः । पूर्व जात इत्यर्थः । अन्यथा मन्दगतिग्रहे शीघ्रगतिग्रहादधिके सतीत्यर्थः । तयोर्योगो भविता एष्यः । एवमुक्तं गतैष्यस्वम् । द्वयोर्ग्रहयोः प्राग्यायिनोः पूर्वगतिकयोभवति ।' वक्रिणोर्वक्रगतिग्रहयोर्विपर्ययादु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com