________________
अध्यायः १] संस्कृतटीका-भाषाटीकासमेतः । (५) स्वांशद्वारा दास्यामीत्यर्थो दद्यामिति पूर्वपद्योक्तस्य प्रकटीकृतः । ननु त्वयैव वक्तव्यमित्यत आह-नेति । कश्चिदपि जीवो मे सूर्यमण्डलस्थस्य तेजःसहस्तेजोधारको न। सथा च बहुकालं मत्समीपे स्थातुमशक्तस्त्वं कथं मत्तः श्रोष्यसीति भावः । ननु स्वतपःसामर्थ्यनाहं त्वत्समीपे बहुकालं स्थातुं शक्तस्त्वत्तः श्रोष्यामीत्यत आह-आख्यातुमिति । मे सूर्यमण्डलस्थस्य प्रवहवायुनानवरतं भ्रममाणस्य स्वशक्त्या कदाप्यस्थिरस्य कथयितुं क्षणः कालो नास्ति । भ्रमणावसानासम्भवेनैकत्र स्थित्यसंभवात् । तथा च स्थिरस्य तव बहुकालं मत्संगासम्भवान्मत्तः श्रवणमसम्भावि । नहि त्वमपि मत्स्थानमधिष्ठातुं शक्तो येन मत्तः श्रवणं तव सम्भवति । ईश्वरनियोगाभावादिति भावः॥६॥
भा० टी०-मेरे तेनको कोई नहीं सह सकता और हमको समयभी नहीं है । हमारा अंशरूप यह पुरुष तुमसे विशेषतासहित कहेगा ॥ ६ ॥ मथ सूर्यवचनानुवादमुपसंहरन्सूर्यांशपुरुषमयासुरसंवादोपक्रममाह
इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः ॥
संपुमान्मयमाहेदं प्रणतं प्रान्नलिस्थितम् ॥ ७॥ देवः सूर्यमण्डलस्थः इति पूर्वोक्तमुक्त्वा कथयित्वा आत्मनः स्वस्यांशमग्रस्थमंशपुरुष समादिश्य त्वं मयं प्रति सकलं ग्रहमाहात्म्यं कथयेत्याज्ञाप्य 'विनाज्ञां स मयं प्रति कथं कथयेत् समुच्चयार्थश्चकारोऽनुसन्धेयः । अन्तर्दधे अन्तर्धानं सूर्यांशपुरुषमयनेत्रागोचरतां प्राप्तवान् । प्रकृतमाह । स इति । सूर्याज्ञप्तः सूर्यांशपुरुषो मयासुरं प्रतीदं वक्ष्यमाणमवदत् । ननु नापृटो वदेदित्युक्तेर्मया पृष्टोऽयं कथं मयं प्रत्यवददित्यतो मयविशेषणद्वयमाह-प्रणतं प्राञ्ज लस्थितमिति । प्रकर्षण भक्तिश्रद्धातिशयेन नतं नम्र स्वनमस्कारकारकम् । प्रकृष्टो मानमवेष्टाद्योतको योऽञ्जलिः कराप्रयोः सम्पुटीकरणं तत्र चित्तैकाठयेणावस्थितम् । एतेनावनतभिरकरसम्पुटसंयोगः कायिकनमस्कार इति स्पष्टमुक्तम् । तथा च स्वामिन्नहं त्वां नतोऽस्मि मामनुगृहाणेर्दै कथयेत्युक्तियोतकनमस्कारोक्तेर्मयपृष्टोऽयं मयं प्रत्यवदेदिति भावः ॥ ७ ॥ __ भा० टी०-सूर्यभगवान् यह कह अपने अंशयको आज्ञा देकर मन्तर्धान हुए। और प्रणाम करते हाथ जोडकर खडे हुए मयसे सूर्याशारुपने कहीं ॥ ७ ॥
अथ प्रतिज्ञाततत्संवादानुवादे मयं प्रति ज्ञानं वक्तुकामः सूर्याशपुरुषः सावधानतया मदुक्तं शृणु त्वमित्याह
शृणुष्वैकमनाः पूर्व यदुक्तं ज्ञानमुत्तमम् ॥
युगेयुगे महर्षीणां स्वयमेव विवस्वता ॥८॥ हे मय एकस्मिन्नेव मनो यस्यासौ । अन्यविषयेभ्यो मनः, समाहृत्य मदुक्ते मनो ददानस्त्वं तज्ज्योतिःशास्त्रं शृणुष्व । श्रोत्रद्वारात्ममनः संयोगेन प्रत्यक्ष कुर्वित्यर्थः । ननु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com